Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 385
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३३९॥ अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । बहिर्गत्वोपस्मशानं कायोत्सर्ग दधौ च सः । नभःसेनेन दृष्टश्च तच्छिद्रान्वेषिणा सदा ।। १५५ ।। तमूचे च नभःसेनः पाखडिन् किं करोष्यदः । लभस्व कमलामेलाहरणच्छद्मनः फलम् ।। १५६ ॥ इत्युक्त्वा तस्य शिरसि निधाय घटकंठकम् । अपूरयच्चितांगारैर्नभःसेनो दुराशयः ॥ १५७ ।। तत्सम्यगधिसह्याशु विपन्नः सागरः सुधीः । स्मृतपञ्चपरमेष्ठिनमस्कारो दिवं ययौ ।। १५८ ॥ सदस्यूचेऽन्यदा शक्रो यत्कृष्णो गुणकीर्तनम् । दोषान् विहाय कुरुते नीचयुद्धैर्न युध्यते ।। १५९ ॥ तद्वचोऽश्रद्दधत्कश्चिदागाद्वारवती सुरः । तदा च स्वेच्छया रन्तुं रथस्थः प्राचलद्धरिः ।। १६० ॥ विचक्रे तेन देवेन कृष्णांगः श्वा मृतः पथि । दुर्गन्धेनाखिलं लोकं बाधमानोऽतिदूरतः ।। १६१ ॥ तं प्रेक्ष्य केशवोऽवोचदहो कृष्णतनोः शुनः । अस्यास्ये पांडुरा दंताः शोभन्ते सुतराममी ।। १६२ ।। देवोऽथाश्वहरीभूयाश्वरत्नं शाह्मिणोऽहरत् । प्रधाविताननुपदं कृष्णसैन्याञ्जिगाय च ।। १६३ ।। ततोऽधावत् स्वयं कृष्णो नेदीयानब्रवीच्च तम् । किं हरस्यश्वरत्नं मे मुञ्चेदानी क्वयासि भोः ।। १६४ ।। देवोऽप्युवाच मां युद्धे विजित्याश्वं गृहाण भोः । कृष्णोऽप्यूचे रथं तर्हि त्वमादत्स्व रथी ह्यहम् ।।१६५ ॥ देवोऽप्युवाच पर्याप्तं रथेनेभादिना च मे । युद्धैश्च बाहुयुद्धाद्यैः कुरु किं तु युताहवम् ।। १६६ ॥ प्रत्यभाषत गोविन्दो जितोऽस्मि नय वाजिनम् । न जातु नीचयुद्धेन युध्ये सर्वात्ययेऽपि हि ।। १६७ ॥ १ मिलितयुद्धम् । २ सर्वनाशेऽपि । शक्रेण कृता कृष्णप्रशंसा देवपरीक्षा ॥३३९ ।।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420