Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 384
________________ त्रिषष्टिशलाका पुरुषचरिते ॥३३८ ॥ सिद्धिः स्याच्चिरसाध्यापि सहायवशतः क्षणात् । यथा त्वयाद्य वृद्धस्य ब्राह्मणस्येष्टकार्पणात् ॥ १४१ ॥ सोमशर्मा न कुर्याच्चेत् कर्म त्वद्भ्रातुरीदशम् । तत्कथं तस्य सिद्धिः स्यात्कालक्षेपं विनैव हि ।। १४२ ।। स्वमुद्बद्धुं व्रजंस्त्वां च विशन्तं पुरि वीक्ष्य यः । भिन्नमूर्धा म्रियते तं जानीथा भ्रातृघातकम् ।। १४३ ।। ततः कृष्णो रुदन् भ्रातुः संस्काराद्यकरोत् स्वयम् । प्राविशच्च पुरीं सोममैक्षिष्ट च तथा मृतम् ॥ १४४ ॥ बन्धयित्वा पादयोस्तं पुर्यामभ्रमयन्नरैः । बहिश्च क्षेपयामास गृध्रादीनां नवं बलिम् ।। १४५ ।। तेन शोकेन यदवो बहवो नेमिसन्निधौ । प्रवव्रजुर्दशार्हाश्च वसुदेवं विना नव ।। १४६ ।। शिवा च स्वामिनो माता सप्त चापि सहोदराः । अन्येऽपि हरिकुमाराः प्राव्रजन्नन्तिके प्रभोः ॥ १४७ ॥ जीत्यपि संविना प्राव्राजीत्स्वामिनोऽन्तिके । नन्दकन्यैकनासा च बह्व्यश्चान्या यदुस्त्रियः ।। १४८ ।। कन्योद्वाहप्रत्याख्यानाभिग्रहं हरिराददे । सर्वा दुहितरस्तस्य प्राव्रजन् स्वामिनोऽन्तिके ।। १४९ ।। विना च कनकवतीं रोहिणीं देवकीं तथा । वसुदेवस्य पल्योऽपि प्राव्रजन्नेमिसन्निधौ । १५० ।। गृहेऽपि कनकवत्याश्चिन्तयन्त्या भवस्थितिम् । उत्पेदे केवलज्ञानं सद्यस्त्रुटितकर्मणः ।। १५१ ।। नेमिना ज्ञापितैर्देवैः सा क्लृप्तमहिमा ततः । प्रव्रज्यां स्वयमादत्त ययौ च स्वामिनोऽन्तिके ॥। १५२ ।। दृष्ट्वा नेमिं वनेऽगच्छद्दिनानि त्रिंशतं ततः । विहितानशना मृत्वा मोक्षं कनकवत्यगात् ।। १५३ ।। नैषधिः सागरचन्द्रो रामपौत्रो विरक्तधीः । अणुव्रतधरोऽग्रेपि तदाभूत् प्रतिमाधरः ।। १५४ ॥ अष्टमं पर्व दशमः सर्गः श्री अरिष्टनेमिजिनचरितम् । गज सुकुमाल शोकेन बहुना यादवानां दीक्षा । ।। ३३८ ।।

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420