Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 381
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३३५॥ अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । अजितसेननिहतशत्रू नाम्ना महामुनी । सा प्रत्यलाभयत्तावप्यथान्यौ समुपेयतुः ।। १०२ ।। नाम्ना देवयशःशत्रुसेनौ श्रमणपुंगवौ । तौ च नत्वा देवकीथमपृच्छद्रचिताञ्जलिः ॥ १०३ ।। भूयो भूयोऽपि दिङ्मोहात् किं नु यूयमिहागताः । किं वा मे मतिमोहोऽयं यूयं न हि त एव हि ॥ १०४ ।। अथवा स्वर्गकल्पायामप्यस्यां पुरि संपदा । नोचितं भक्तपानादि प्राप्नुवन्ति महर्षयः ।।१०५ ॥ तावूचतुर्न दिङ्मोहोऽस्माकं षट् सोदरा वयम् । भद्दिलपुरवास्तव्याः सुलसानागयोः सुताः ।। १०६ ।। धर्म श्रुत्वा नेमिपार्श्वे प्राव्रजाम वयं हि षट् । भूत्वा च त्रीणि युग्मानि क्रमात्ते गृहमागताः ।। १०७ ॥ ततश्च देवकी दध्यौ कथं नाम षडप्यमी । कृष्णस्य सहशा एवं तिला अपि तिलस्य न ।। १०८ ।। जीवदष्टसुता चाहमतिमुक्तकसाधुना । पुराख्यातास्मि तेनैते किं स्युर्मम तनूरुहाः ॥ १०९ ।। विमृश्यैवं द्वितीयेऽह्नि तत्प्रष्टुं नेमिनोऽन्तिके । ययौ समवसरणे देवकी देवनिर्मिते ॥११०॥ ज्ञात्वा स्वाम्यपि तद्भावमूचे तेऽमी सुताः खलु । समर्पिताः सुलसाया जीवन्तो नैगमेषिणा ।। १११ ॥ सा तथा तत्र षट् साधून् पश्यत्युत्प्रसवस्तनी । ववन्दे च बमाषे च साधु दृष्टाश्च हे सुताः ।। ११२ ।। राज्यं प्रकृष्टमथवा दीक्षा मत्कुक्षिजन्मनाम् । किं त्वेतन्मम खेदाय स्वयं नैकोऽपि लालितः ।। ११३ ॥ भगवानप्यथोवाच मुधा मा ताम्य देवकि । पूर्वकर्मफलं ह्येतदिह जन्मन्युपस्थितम् ॥११४ ।। १ ते एव कृष्णस्य सदृशास्तिला अपि तिलस्य सध्शा न । २ अष्टमः सुतो भावीत्यपेक्षयोक्तमिदम् । देवकन्या स्वषट्सुतपरिज्ञानम् । ॥३३५ ।।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420