Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३२॥
| अष्टमं पर्व दशमः सर्गः श्रीअरिष्ट
नेमिजिन
चरितम् ।
इत्युक्तः स तथा चक्रे नमश्चक्रे च शाङ्गिणम् । शरण्यो वासुदेवोऽपि मा भैषीरित्युवाच तम् ।। ६२ ।। द्रौपदी चार्पयामास पांडवानां जनार्दनः । ववले च रथारुढः सह तैस्तेन वर्मना ।। ६३ ।। तदा च तत्र चंपायामुद्याने पूर्णभद्रके । भगवान् समवासार्षीन्मुनिसुव्रततीर्थकृत् ।। ६४ ।। कपिलस्तत्सभासीनो विष्णुः पप्रच्छ तं प्रभुम् । स्वामिन्ममेव कस्यायं शंखनादः श्रवोतिथिः ।। ६५ ।। शंखध्वनिः कृष्णविष्णोरेष इत्यर्हतोदिते । एकत्र किं हरी स्यातामित्यपृच्छत्स केशवः ।। ६६ ।। द्रौपदीपद्मकृष्णानां वृत्तान्तं भगवानपि । समाचख्यौ कपिलाय कपिलोऽप्येवमब्रवीत् ।। ६७ ।। जंबुद्वीपार्धभरतेशस्य कृष्णस्य नाथ किम् । भवाम्यहं स्वागतिकोऽभ्यागतस्यातिथेरिह ॥६८ ॥ स्वाम्यूचे न यथैकत्र द्वितीयोऽर्हन्न चक्रभृत् । न च विष्णुस्तथान्येन न मिलेत् कारणागतः ॥ ६९ ॥ श्रुत्वापीत्यर्हतो वाचं कपिलः कृष्णमीक्षितुम् । ययावब्धेस्तटे कृष्णरथसीमंतिताध्वनि ।।७० ।। ईक्षांचक्रे च कृष्णस्य मध्येऽम्भोनिधि गच्छतः । रजतस्वर्णपत्राभान् श्वेतपीतरथध्वजान् ॥७१ ॥ कपिलो विष्णुरेषोऽहमुत्कस्त्वां द्रुष्टुमागतः । तद्वलस्वेत्यक्षराढ्यं शंखं दध्मौ स शार्ङ्गभृत् ॥ ७२ ।। आगमाम वयं दूरं त्वया वाच्यं न किंचन । इति व्यक्ताक्षरध्वानं शंखं कृष्णोऽप्यपूरयत् ।।७३ ॥ तच्छंखध्वनिमाकर्ण्य ववले कपिलो हरिः । गत्वा कंकापुरी पद्म किमेतदिति चावदत् ।।७४ ॥ १ कर्णातिथिः । २ अद्यतन्यां उत्तम पुरुष बहुवचनम् ।
द्वयोर्वासु| देवयोः शंखनादमिलनम्।
।।३३२ ।।

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420