________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१८॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रीनेमेः प्रतिरुपाणि दिक्ष्वन्यास्वपि तत्क्षणम् । रत्नसिंहासनस्थानि विचक्रुर्व्यन्तरामराः ।। २८१ ।। अथ तस्थुर्यथास्थानं देवा देव्यश्चतुर्विधाः । दत्तेक्षणाः स्वामिमुखे चकोरा इव शीतगौ ।। २८२ ।। तथा च समवसृतं स्वामिनं शैलपालकाः । गत्वाचख्युः स्वनाथाय देवकीतनुजन्मने ।। २८३ ।। रुप्यस्य द्वादश कोटीः सार्धास्तेभ्यः प्रदाय सः । प्रचचाल गजारुढो नेमिनाथं विवन्दिषुः ।। २८४ ।। समं दशाहर्दशभिर्मातृभितृभिस्तथा । कोटिसंख्यैः कुमारैश्च समग्रान्तःपुरेण च ।। २८५ ।। महीभुजां षोडशभिः सहनैश्च समावृतः । ऋद्ध्या महत्या समवसरणं प्रययौ हरिः ॥२८६ ।। दूरादप्यवरुह्येभाद्राज्यचिह्नान्यपास्य च । उदग्द्वारेण समवसरणे प्राविशद्धरिः ।। २८७ ।। तत्र प्रदक्षिणीकृत्य नेमि नत्वा च शाभृित् । अनुशक्रं निषसाद यथास्थानमथापरे ।। २८८ ।। इन्द्रोपेन्द्रौ पुनर्नत्वा जिनेन्द्रमथ नेमिनम् । प्रारेभाते स्तोतुमेवं गिरा भक्तिपवित्रया । २८९ ।। नमस्तुभ्यं जगन्नाथ विश्वविश्वोपकारिणे । आजन्म ब्रह्मनिष्ठाय दयावीराय तायिने ।।२९० ॥ दिष्ट्या कर्माणि घातीनि स्वामिन् घातितवानसि । शुक्लध्यानेन दिवसैश्चतुःपञ्चाशतापि हि ।। २९१ ।। न केवलं यदुकुलं त्वया नाथ विभूषितम् । इदं जगत्त्रयमपि केवलालोकभास्वता ।। २९२ ।। अस्ताघो यस्तथा स्वामिन्नपारश्च भवांबुधिः । गुल्फगोष्पदमात्रं स स्यात्त्वत्पादप्रसादतः ।। २९३ ॥ १शीता गावः किरणा यस्य तस्मिश्चन्द्रे । २ रक्षित्रे ।३ अगाधः ।
||श्रीनेमि
नाथस्य | केवलोत्पत्तिः ।
॥३१८॥