________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१९॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सर्वस्य भिद्यते स्वान्तं ललनाललितैः प्रभो । अभेद्यो वज्रहृदयस्त्वत्तो नान्यो जगत्यपि ॥२९४ ।। त्वयि व्रतनिषेधिन्यो बन्धूनां ता गिरोऽधुना । भवन्ति पश्चात्तापाय तवर्द्धिं पश्यतामिमाम् ।। ।।२९५ ॥3 दुराग्रहैबन्धुवगैर्दिष्ट्या न स्खलितस्तदा । जगत्पुण्यैरस्खलितोत्पन्नकेवल पाहि नः ।। २९६ ।। यत्र तत्र स्थितस्यापि यद्वा तद्वापि कुर्वतः । त्वमेव देव हृदये भूयाः किमपरेण मे ॥ २९७ ।। इति स्तुत्वा विरतयोस्तत्रेन्द्रोपेन्द्रयोः प्रभुः । सर्वभाषानुगगिरा प्रारेभे धर्मदेशनाम् ।। २९८ ॥ विद्युद्विलासचपलाः श्रियः सर्वशरीरिणाम् । संयोगा विप्रयोगान्ताः स्वप्नप्राप्तार्थसन्निभाः ।। २९९ ॥ गत्वरं यौवनपि मेघच्छायासहोदरम् । अंबुबुद्बुदकल्पानि वपूंष्यपि वपुष्पताम् ।। ३०० ॥ तस्मादसारे संसारे सारमत्र न किंचन । सारंतु दर्शनज्ञानचारित्रपरिपालनम् ।।३०१ ।। तत्त्वानां श्रद्दघानत्वं सम्यग्दर्शनमुच्यते । यथावस्थिततत्त्वानां बोधो ज्ञानं प्रकीर्तितम् ।। ३०२ ।। सावद्ययोगविरतिश्चारित्रं मुक्तिकारणम् । सर्वात्मना यतीन्द्राणां देशतः स्यादगारिणाम् ॥ ३०३ ॥ देशचारित्रविरतो विरतानामुपासकः । भवस्वरुपं जानानः श्रावको जीवितावधि ।।३०४ ।। मद्यं मांसं नवनीतं मधूदुंबरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ।। ३०५ ॥ आमगोरससंपृक्तद्विदलं पुष्पितौदनम् । दध्यहर्द्वितयातीतं कुथितान्नं च वर्जयेत् ।। ३०६ ॥ १ अनुष्णगोरसेन संपृक्तं यद्धिदलम् ।
श्रीनेमिनाथस्य देशना।
॥३१९ ॥