________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२०॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धी बन्धुरस्यापि दौर्भाग्येणेव कामिनी ।।३०७ ॥ पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रीयीयन्ति जननीयन्ति च प्रियाम् ।। ३०८ ।। न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किंकरीयति ।। ३०९ ॥ मद्यपस्य शबस्येव लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशंकया ।।३१० ॥ मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ।। ३११ ॥ वारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कज्जलादिव ।।३१२ ।। भूतात्तवन्नरीनर्ति रारटीति सशोकवत् । दाहज्वरातवद्ऽभूमौ सुरापो लोलुठीति च ।। ३१३ ॥ विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्जामतुच्छां यच्छन्ती होला हालाहलोपमा ॥३१४ ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्वं तृण्या वह्निकणादिव ॥३१५ ॥ रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥३१६ ।। दत्तं न दत्तमात्तं च नात्तं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा स्वैरं वदति मद्यपः ।।३१७॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधी : । वधबन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥३१८ ॥ १ कादम्बरी मदिरा । २ जननीं प्रियामिव कुर्वन्तीति प्रीयीयन्ति एवं सर्वत्र । ३ वारुणी मदिरा । ४ अतिशयेन पुनः पुनर्वा नृत्यतीति नरीनर्ति एवं सर्वत्र । ५ हाला मदिरा । ६ तृणसमूहस्तृण्या ।
श्रीनेमि
देशना।
।। ३२० ॥
॥
8
॥