________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२१॥
अष्टम पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
बालिकां युवती वृद्धा ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ।।३१९ ।। रटन् गापन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तंभन्नमन् भ्रमस्तिष्ठन् सुरापः पापराण्नटः ।। ३२० ॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव तुष्यति । जन्तुजातं कवलयन् कृतान्त इवै सर्वदा ।। ३२१ ।। दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्य विवर्जयेत् ॥ ३२२ ।। चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ ३२३ ।। चिखादिषति यो मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली स रोपयितुमिच्छति ।।३२४ ।। हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेतानुमन्ता दाता च घातकाः सर्व एव ते ।। ३२५ ।। ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वधको भक्षकं विना ।। ३२६ ।। मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ।। ३२७ ॥ मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्तते बुद्धिः शाकिन्या इव दुर्धियः ।।३२८ ॥ ये भक्षयन्ति पिर्शितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ।। ३२९ ।। न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि ।। ३३० ॥ नान्यस्ततो गतघृणो नरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ।।३३१ ।। १ खादितुमिच्छति । २ मांसस्य । ३ विष्टाधीनानि विष्टासत् । ४ मांसम् । ५ गता घृणा दया यस्य सः । ६ नरकस्याग्निस्तस्मिन्निन्धनतुल्यम् ।
श्रीनेमिनाथदेशना।
&
॥३२१ ॥