________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२२॥
अष्टम पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
शुक्रशोणितसंभूतं विष्टारसविवर्धितम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ।।३३२ ।। सद्यः संमूर्च्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ।। ३३३ ।। अन्तर्मुहुर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्च्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ।। ३३४ ।। एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥३३५ ॥ अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ।। ३३६ ।। भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ।। ३३७ ।। एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ।। ३३८ ॥ अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३३९ ॥ मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ।।३४०॥ उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ।।३४१ ।। अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥३४२ ।। आर्द्रः कन्दः समग्रोऽपि सर्वः किसलयोऽपि च । स्नुहिलवणवृक्षत्वक्कुमारीगिरिकर्णिकाः ।।३४३ ।। शतावरीविरुढानि गडूची कोमलाम्लिका । पल्यंकोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥३४४ ।। १ वृद्धित्वम् । २ अकृमि रोगरहितो मानवः । ३ मधु ।
श्रीनेमिनाथदेशना।
।।३२२ ।।