________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२३॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ।। ३४५ ।। स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥३४६ ।। अन्नं प्रेतपिशाचायैः सञ्चरद्भिर्निरङ्कशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ।।३४७ ।। घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ ३४८ ।। मेधां पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्ति कुष्टरोगं च कोलिकः ।। ३४९ ।। कंटको दारुखंडं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥३५० ।। विलग्नश्च गले वालः स्वरभंगाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ।। ३५१ ।। नाप्रेक्ष्य सूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि । अवश्य जन्तुसंपातः संभवेदशने तदा ।। ३५२ ।। संसजज्जीवसंघातं भुजाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं न ते ॥३५३ ॥ वासरे च रजन्यां च यः खादन्नेव तिष्ठति । श्रृंगपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ।।३५४ ।। अहो मुखेऽवसानेऽपि यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ।।३५५ ॥ अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥३५६ ।। ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ।। ३५७ ॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥३५८ ॥ १ मच्छः ।
श्रीनेमिनाथदेशना।
॥३२३ ।।