________________
त्रिषष्टिशलाकापुरुषचरिते ||३२४॥
अष्टमं पर्व |नवमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
करोति विरतिं धन्यो यः सदा निशी भोजनात् । सोऽधं पुरुषायुषस्य स्यादवश्यमुपोषितः ।। ३५९ ॥ रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । सद्गतेरेव जनकान् कः संख्यातुमलं भवेत् ।।३६० ।। आमगोरससंपृक्तद्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥३६१ ।। जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । संधानमपि संसक्तं दयाधर्मपरायणः ।।३६२ ॥ एवं दयाप्रधानः सन् भोज्येष्वपि विविक्तधीः । श्रावकोऽपि क्रमयोगात् संसारात् परिमुच्यते ॥३६३ ॥ देशनां तां प्रभोः श्रुत्वा वरदत्तो नरेश्वरः । परं संसारवैराग्यमाससाद व्रतोत्सुकः ।। ३६४ ॥ नत्वाथ कृष्णः पप्रच्छ सर्वस्त्वय्यनुरागवान् । राजीमत्या विशेषानुरागे किं नाम कारणम् ।। ३६५ ।। ततो धनधनवतीभवादारभ्य नेम्यपि । तया सह स्वसम्बन्धमाख्यादष्टभवावधि ।। ३६६ ॥ अथोत्थाय नमस्कृत्य वरदत्तमहीपतिः । कृताञ्जलिर्जगन्नाथं नेमिनाथं व्यजिज्ञपत् ।। ३६७ ।। त्वत्तः श्रावकधर्मोऽपि प्रपन्नः स्यान्महाफलः । जन्तूनां स्वातिनक्षत्रजीमूतादिव पुष्करम् ॥३६८ ।। परं गुरौ त्वयि प्राप्ते नाहं तुष्यामि तावता । को हि कल्पद्रुमे प्राप्ते पत्रमात्रमभीप्सति ।।३६९ ॥ तव प्रथमशिष्यत्वमभीप्सामि प्रयच्छ मे । संसारतारणी दीक्षां दयां कुरु दयानिधे ॥३७० ॥ इत्युक्तवन्तं तं भूपं स्वयं प्रावाजयत् प्रभुः । क्षत्राणां विंशतिशती तदनु प्राव्रजत्तथा ।। ३७१ ।। १ संसक्तं जन्तुसंसक्तं संधानमप्याचारमपि त्यजेत् संधानं भाषायां “अथाणु” इति ख्यातम् । २ जलम् ।
तीर्थस्थापना।
॥३२४ ।।