________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२५॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
धनदेवधनदत्तौ बन्धू धनभवात्तु यौ । अमात्यो विमलबोधोऽपराजितभवात्तु यः ।। ३७२ ।। स्वामिना ते सह भ्रान्ता भवेऽस्मिन्भूभुजस्त्रयः । तत्रायाता राजीमत्याः प्रसंगात् प्राग्भवैः श्रुतैः ।।३७३ ।। उत्पन्नजातिस्मरणा जातवैराग्यसंपदः । अरिष्टनेमिपादान्ते तदैवाददिरे व्रतम् ।।३७४ ।।
॥त्रिभिर्विशेषकम् ।। तैः सह वरदत्तादीनेकादश गणाधिपान् । स्थापयामास विधिवन्नेमिनाथो जगद्गुरुः ।। ३७५ ।। स्वाम्याख्यत्रिपदी तेभ्यो ध्रौव्योत्पादव्ययात्मिकाम् । तत्रिपद्यनुसारात्ते द्वादशांगीमसूत्रयन् ।।३७६ ।। यक्षिणी राजपुत्री च भूरिकन्यासमावृता । प्राव्रजत्तां तदा स्वामी प्रत्यष्ठाच्च प्रवर्तिनीम् ।। ३७७ ।। दशार्हा उग्रसेनश्च वासुदेवश्च लागली । प्रद्युम्नाद्याः कुमारांश्च श्रावकत्वं प्रपेदिरे ।। ३७८ ।। शिवारोहिणीदेवक्यो रुक्मिण्याद्याश्च योषितः । जगृहुः श्रावकधर्ममन्याश्च स्वामिसन्निधौ ।।३७९ । एवं समवसरणे तस्मिन् संघः प्रभोरभूत् । चतुर्विधो धर्म इव पृथिवीतलपावनः ।। ३८० ॥ यातप्रथमपौरुष्यां व्यसाक्षीद्देशनां प्रभुः । द्वितीयपौरुषी चक्रे वरदत्तस्तु देशनाम् ।। ३८१ ॥ भगवन्तं ततो नत्वा वासवाद्या दिवौकसः । कृष्णाद्या भूभुजोऽन्येऽपि स्थानं निजनिजं ययुः ।। ३८२ ।। तत्तीर्थजन्मा गोमेधस्त्र्यास्यः श्यामो नवाहनः । मातुलिंगपशुचक्रधारिदक्षिणदोस्त्रयः ।। ३८३ ॥ सनकुलशूलशक्तिदक्षिणेतरदोस्त्रयः । स्वामिनो नेमिनो जज्ञे तदा शासनदेवता ।। ३८४ ।।
तीर्थस्थापना ।
॥३२५ ।।