________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१७॥
| अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ऊचे च रथनेमि सा स्थालमानय काञ्चनम् । सोऽप्यानिनाय सा तत्र पीतदुग्धं ववाम च ।। २६८ ।। रथनेमे पिबेदं त्वमित्युवाचोग्रसेनजा । सोऽभ्यधात् किमहं श्वास्मि वान्तपानाय वक्षि यत् ।। २६९ ।। साप्यब्रवीदपातव्यमिदं त्वमपि वेत्सि किम् । सोऽवोचत् केवलो नाहं बाला अपि विदन्त्यदः ॥ २७० ।। राजीमती जगादाथ यदि जानासि तहर । नेमिनाथेन वान्तां मामुपभोक्तुं किमिच्छसि ॥२७१ ॥ तस्य भ्रातापि भूत्वा त्वं कथमेवं चिकीर्षसि । मातः परमिदं वादीनरकायुर्निबन्धनम् ।। २७२ ॥ एवं तयोक्तस्तूष्णीको ह्रीणः क्षीणमनोरथः । रथनेमिनिजं धाम जगाम विमनायितः ।। २७३ ।। राजीमती च श्रीनेमावनुरागपरायणा । संविग्ना गमयन्त्यस्थाद्वासरान् वर्षसन्निभान् ।। २७४ ।। नेमिनाथोऽपि हि चतुःपञ्चाशद्वासरी व्रतात् । विहत्यागाद्रैवतके सहस्राम्रवणे वने ॥ २७५ ।। वेतसस्य तले तत्र ध्यानान्तरविवर्तिनः । श्रीनेमेरष्टमस्थस्य घातिकर्माणि तुत्रुटुः ।। २७६ ॥ आश्विनस्यामावास्यायां पूर्वाह्ने त्वाष्ट्रगे विधौ । केवलज्ञानमुत्पेदे स्वामिनोऽरिष्टनेमिनः ।। २७७ ।। सद्यः सुरेन्द्राश्चलितासनास्तत्र समाययुः । चक्रुः समवसरणं प्राकारत्रयभूषितम् ॥२७८ ॥ प्रविश्य पूर्वद्वारेण विंशधन्वशतोन्नतम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जगद्गुरुः ॥२७९ ॥ तीर्थाय नम इत्युक्त्वा द्वाविंशः सोऽथ तीर्थकृत् । पूर्वसिंहासने पूर्वाभिमुखः समुपाविशत् ।। २८० ॥ १ लज्जितः ।
श्रीनेमिनाथस्य केवलोत्पत्तिः ।
॥३१७॥