________________
त्रिषष्टिशलाकापुरुषचरिते
।।३१६ ।।
अथ गोष्ठे द्वितीयेऽह्नि वरदत्तद्विजौकसि । पारणं परमान्नेन चकार परमेश्वरः ।। २५५ ।। वृष्टिं गन्धांबुपुष्पाणां गंभीरं दुन्दुभिध्वनिम् । चेलोत्क्षेपं वसुधारां विदधुर्विबुधास्तदा ।। २५६ ।। ततो विहर्तुमन्यत्र घातिकर्मक्षयोद्यतः । नेमिनाथः प्रववृते निवृत्तः कर्मबंधनात् ।। २५७ ।। इतश्च नेमेरनुजो रथनेमिः स्मरातुरः । जज्ञे राजीमतीं पश्यन्निन्द्रियाणां वशंवदः ।। २५८ ।। सोऽपूर्वैर्वस्तुभी राजीमतीं नित्यमुपाचरत् । तद्भावाविदुरा सापि मुग्धा न निषिषेध तम् ।। २५९ ।। भ्रातृस्नेहादुपास्तेऽसौ नित्यं मामित्यमंस्त सा । ममोपचारं रागेण गृह्णात्येषेति सोऽपि हि ।। २६० ।। ययौ च तुच्छधीर्नित्यं राजीमत्याः स वेश्मनि । भ्रातुर्जायापदेशेन तस्यां नर्म चकार च ।। २६१ ।। रहःस्थितामन्यदा तां रथनेमिरदोऽवदत् । मुग्धे परिणयामि त्वां यौवनं मा मुधा नय ॥ २६२ ॥ भोगानभिज्ञो मबन्धुस्त्यक्तवांस्त्वां मृगाक्षि यत् । स एव वञ्चितो भोगसुखानां किं गतं तव ॥ २६३ ॥ प्रार्थ्यमानोऽपि नाभूत्ते स वरो वरवर्णिनि । अहं प्रार्थयमानस्त्वामस्मि पश्यान्तरं महत् ।। २६४ ॥ हेतुं पूर्वोपचाराणां तेन भावेन तस्या सा । तदानीमेव चाबोधि स्वभावसरलाशया ।। २६५ ।। बोधयामास सा तं च धर्मज्ञा धर्मशंसनात् । तस्मादध्यवसायात्तु न व्यरंसीत् स दुर्मतिः ॥ २६६ ॥ अन्येद्युर्दुग्धमाकंठं पपौ राजीमती सुधीः । तत्रायाते तु मदनफलं जघ्रौ च वान्तिकृत् ॥ २६७ ॥ १ तस्य भावमविदुरानभिज्ञा । २ वरं वृणुते सा वरवर्णिनी तत्संबुद्धौ । ३ तत्र तस्मिन् रथनेमाविति यावत् ।
अष्टमं पर्व नवमः
सर्गः श्री अरिष्टनेमिजिन
चरितम् ।
राजीमति
कृतो
रथनेमिप्रतिबोधः ।
।। ३१६ ।।