________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१५॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पितृभिर्मातृभी रामकृष्णाद्यैश्च समावृतः । प्रतस्थे भगवान्राजपथेनाथ महामनाः ।। २४३ ॥ स्वगृहाभ्यर्णमायातो राजीमत्येक्षितः प्रभुः । सद्यो नवीभूतशुचा सामूर्छच्च मुहुर्मुहुः ।। २४४ ।। ततश्च प्रययौ नेमिरुज्जयन्ताद्रिभूषणम् । सहस्राम्रवणं नामोपवनं नन्दनोपमम् ।। २४५ ॥ आविष्कृतस्मितमिव प्रोन्मीलन्नवकतकैः । गलितजंबुभिर्नीलबद्धोर्वीकमिवाभितः ॥ २४६ ॥ कदंबपुष्पपर्यकशयानोन्मत्तषट्पदम् । उद्धर्हबर्हिणारब्धकेकाव्याकुलतांडवम् ।। २४७ ।। स्मरास्त्रागारसदृशस्फुटत्कुटजकाननम् । मालतीयूथिकामोदपर्यस्तपथिकव्रजम् ।। २४८ ।। प्रविश्योद्यानमुत्तीर्य शिबिकायाः शिवात्मजः । यन्मुमोचाभरणादि प्रादात्तद्धरये हरिः ।। २४९ ॥
॥चतुर्भिः कलापकम् ।। त्रिशत्यां जन्मतोऽब्दानामतीतायां शिवात्मजः । श्रावणस्य श्वेतषष्ठ्यां पूर्वाह्ने त्वाष्ट्रगे विधौ ।। २५० ॥ कृतषष्ठः कचोत्पाटं विदधे पञ्चमुष्टिकम् । केशान् शक्रः प्रतीयेष स्कन्धे दूष्यं न्यधाद्विभोः ॥२५१ ॥ प्रक्षिप्य केशान् क्षीराब्धौ शक्रः पुनरुपेत्य च । न्यषेधत्तुमुलं सामायिकं च प्रभुराददे ॥२५२ ।। मनःपर्ययसंज्ञं च जज्ञे ज्ञानं जगद्गुरोः । तदा सुखं समुत्पेदे नारकाणामपि क्षणम् ।। २५३ ।। अनुनेमिकुमारं च सहस्रं प्राव्रजन्नृपाः । शक्रः कृष्णादयो नेमिं नत्वा चागुः स्वमाश्रमम् ।। २५४ ।। १ कृष्णाय । २ इन्द्रः ।
|श्रीनेमिकुमारदीक्षा।
।।३१५ ॥