________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१४॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
त्वं हि संकल्पमात्रेण दत्ताभूः सुभ्र नेमये । कन्यैवासि तदद्यापि मुग्धे तदपरिग्रहात् ।। २२९ ।। राजीमती सकोपोचे सख्यः किमिदमुच्यते । अस्मत्कुलकलंकाय कुलटाकुलसन्निभम् ॥ २३० ।। नेमिर्जगत्त्रयोत्कृष्टः कोऽन्यस्तत्सशो वरः । सदृशो वास्तु किं तेन कन्यादानं सकृत खलु ।। २३१ ।। मया वृतश्च मनसा वचसा च स वृष्णिसूः । गुरूपरोधिनाप्यस्मि प्रपन्ना तेन गेहिनी ।। २३२ ।। पर्यणैषीन्न मां सोऽद्य त्रैलोक्यैकवरो वरः । भोगैरपि कृतं तर्हि प्रकृत्यानर्थहतुभिः ।। २३३ ।। न स्पृष्टा पाणिना तेन यद्यप्युद्वाहकर्मणि । पाणिः स्प्रक्ष्यति तस्यैव व्रतदानकृतेऽपि माम् ।। २३४ ।। इत्थं कृतप्रतिज्ञा सा प्रतिषिध्य सखीजनम् । कालं निनाय ध्यायन्ती नेमिमेवोग्रसेनजा ।। २३५ ।। इतश्च भगवान्नेमिर्ददौ दानं दिने दिने । रुरुदुश्च समुद्राद्या बाला इव सवेदनाः ।। २३६ ।। राजीमत्याः प्रतिज्ञां तां जनाज्ज्ञानत्रयादपि । विदाञ्चकार भगवान्निर्ममोऽस्थात्तथापि हि ।। २३७ ।। ददौ च वार्षिकं दानं निर्निदानं जगद्गुरुः । दीक्षाभिषेकं चक्रुश्च शक्राद्या नाकिनायकाः ।। २३८ ।। नाम्नोत्तरकुरौ रत्नशिबिकायां शिवासुतः । आरुरोहोह्यमानायां सुरैर्नरवरैरपि ।। २३९ ।।। चामरे तत्र दध्राते शक्रेशानौ पुरः प्रभोः । छत्रं सनत्कुमारस्तु माहेन्द्रः खड्गमुत्तमम् ।। २४० ।। ब्रह्मेन्द्रो दर्पणं पूर्णकुंभ लान्तकवासवः । स्वस्तिकं च महाशुक्रः सहस्रारः शरासनम् ।। २४१ ।। श्रीवत्सं प्राणताधीशो नंद्यावर्त तथाच्युतः । चमराधास्तु शेषेन्द्रा बभूवुः शस्त्रधारिणः ।। २४२ ।।
श्रीनेमिकुमारदीक्षा।
॥३१४ ।।