________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१३॥
| अष्टमं पर्व | नवमः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
आत्मनोऽननुरुपाहं ज्ञाता नेमे त्वया यदि । तत्प्रपद्य विवाहं मे जनितः किं मनोरथः ॥२१६ ।। जनयित्वा च किं भग्नः स्वामिन्मम मनोरथ: । महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् ।। २१७ ।। प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो । मर्यादा लंघयिष्यन्ति निश्चितं जलराशयः ।। २१८ ॥ यद्वा तवापि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतात्वं वचसैव यदासदम् ।। २१९ ।। चारु मातृगृहं दिव्यमंडपो रत्नवेदिका । विवाहायावयोरन्यदप्येतदभवन्मुधा ।। २२० ॥ धवलैर्गीयते यत्तन्न सर्व सत्यमीशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाभवः ।। २२१ ।। किं युग्मिनां विघटनमकार्ष पूर्वजन्मनि । पाणिस्पर्शसुखमपि यत्पत्यु हमाप्नवम् ।। २२२ ।। विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरःस्थलम् । हारं च त्रोटयामास स्फोटयामास कंकणे ॥ २२३ ।। सख्यस्तामूचिरे सैवं विषादं सखि मा कृथाः । कस्तेन सह संबन्धः कार्य वा तेन किं तव ।। २२४ ।। निःस्नेहो निःस्पृहो लोकव्यवहारपराङ्मुखः । गृहवासात् सदा भीरुर्वसतेर्वन्यजीववत् ।। २२५ ।। निर्दाक्षिण्यो निष्ठुरश्च स्वैरी वैरी च नन्वयम् । यातश्चेद्यातु तन्नेमिः साधु ज्ञातोऽधुनैव हि ॥ २२६ ॥ यद्यसौ परिणीय त्वां भवेदेवं हि निर्ममः । कूपे प्रक्षिप्य ते वेर्तिकर्तनं स्यात्तदा कृतम् ॥ २२७ ।। अन्येऽपि यदुकुमारा भूयांसः सन्ति सद्गुणाः । प्रद्युम्नशांबप्रमुखास्तेष्वस्तु रुचितो वरः ॥२२८ ॥ १ दंपतीनाम् । २ रज्जुकर्तनम् ।
राजीमतिविलापः।
॥३१३ ॥