________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१२॥
अष्टम पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अथावदन्नेमिनाथः किमिदं दुःखमुच्यते । उत्तरोत्तरदुःखौघान्नरकाचानतां नृणाम् ।। २०३ ।। आसाद्यते तपोदुःखैर्मोक्षोऽनन्तसुखात्मकः । विषयप्रभवैः सौख्यैर्नरकोऽनन्तदुःखदः ।। २०४ ।। स्वयं विमृश्य तद्भूत किं कर्तुं युज्यते नृणाम् । सर्वोऽपि विमृशन् वेत्ति विमृशेद्विरलः पुनः ॥२०५ ।। तच्छुत्वा पितरौ कृष्णोऽन्येऽपि रामादयोऽविदन् । प्रव्रज्यानिश्चयं नेमे रुरुदुश्चोच्चकैः स्वरम् ।। २०६ ।। स्वजनस्नेहनिगडांस्त्रोटयन्नेमिकुञ्जरः । सारथिप्रेरितरथो ययावथ निकेतनम् ॥ २०७ ।। ज्ञात्वा च समयं तत्राभ्येयुलॊकान्तिकामराः । नेमि नत्वा च ते प्रोचुर्नाथ तीर्थं प्रवर्तय ।। २०८ ।। द्रविणैर्वासवादिष्टजृम्भकामरपूरितैः । प्रारेभे वार्षिकं दानं प्रदातुं भगवानपि ।। २०९ ।। व्यावृत्तं नेमिनं दृष्ट्वा श्रुत्वा च व्रतकांक्षिणम् । राजीमत्यपतत् पृथ्व्यां मल्लीवाकृष्टपादपा ।। २१० ॥ तां सख्यः सिषिचुर्भीताः शीताम्भोभिः सुगन्धिभिः । अवीजयन् व्यजनैश्च कदलीदलनिर्मितैः ॥ २११ ॥ अवाप्तसंज्ञा चोत्थाय कपोललुलितालका । अश्रुधारातिम्यमानकञ्चुका विललाप सा ।।२१२ ।। नासीन्मनोरथोऽप्येष यन्नेमिः स्याद्वरो मम । केनास्यभ्यर्थितो दैव यन्नेमिदं वरः कृतः ।। २१३ ॥ विपरीतं कुतोऽकार्षीरकांडे दंडपातवत् । एकस्त्वमसि मायावी त्वं च विश्वासघातकः ॥२१४ ।। यद्येवं प्रागपि ज्ञातं स्वभाग्यप्रत्ययान्मया । क्वायं जगत्त्रयोत्कृष्टो वरो नेमिरहं क्व च ।। २१५ ॥ १ अश्रुधारया तिम्यमानमा कञ्चुकं यस्याः सा ।
श्रीनेमिकुमारस्य वार्षिकदानं, राजीमतिविलापश्च।
॥३१२ ।।