________________
त्रिषष्टिशलाकापुरुषचरिते ॥३११॥
| अष्टमं पर्व |नवमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
पितरौ शोकनिमग्नौ न युपेक्षितुमर्हसि । तत्रापि हि कुरु भ्रातः सर्वसाधारणी कृपाम् ।। १९० ॥ प्रीणिताः प्राणिनो दीना यथैते भवता तथा । धातॄन् प्रीणय रामादीनपि स्वोद्वाहदर्शनात् ।। १९१ ॥ अथोचे भगवान्नेमिः पित्रोः शोकस्य कारणम् । न किंचिदपि पश्यामि भवतां चापि बान्धव ।। १९२ ।। वैराग्यकारणं मे तु चतुर्गतिरयं भवः । दुःखान्येवानुभूयन्ते यत्रोत्पन्नैः शरीरिभिः ।। १९३ ।। भवे भवे च पितरौ भ्रातरोऽन्येऽपि चाभवन् । न कोऽपि कर्मदायादः स्वयं स्वं कर्म भुज्यते ।। १९४ ॥ छिद्यते दुःखमन्यस्य यदन्येन हरे तदा । पित्रोरर्थे प्रदीयेरन् प्राणा अपि विवेकिना ।। १९५ ॥ परं जन्तुर्जरामृत्युप्रायदुःखानि सत्स्वपि । पुत्रादिषु स्वयं भुंक्ते त्राता कोऽपि न कस्यचित् ।। १९६ ॥ दृष्टेरानन्दमात्रं चेत् पुत्रास्तातस्य सन्ति तत् । विनापि मां महानेमिप्रमुखाः सुखहेतवः ॥ १९७ ।। जरत्पान्थ इवाहं तु संसाराध्वगतागतैः । खिन्नोऽस्मि प्रयतिष्ये तच्छेदे तद्धेतुकर्मणाम् ।। १९८ ॥ कर्मच्छेदः परिव्रज्यां विना न खलु साध्यते । तामेवाहं तदादास्ये मा निर्बन्धं वृथा कृथाः ॥ १९९ ॥ समुद्रविजयोऽथोचे वत्स गर्भेश्वरो ह्यसि । सुकुमारशरीरश्च कथं कष्टं सहिष्यसे ॥२०० ॥ ग्रीष्मकालातपा घोराः सोढव्याः सन्तु दूरतः । विनातपत्रमन्यर्तुतापा अपि सुदुःसहाः ।। २०१ ॥ क्षुत्पिपासादयः सोढुं शक्यन्ते नेतरैरपि । किं पुनर्भवता तात सुरभोगार्हवर्मणा ।। २०२ ॥ १ तस्य संसारस्य हेतुभूतानां कर्मणां छेदे प्रयतिष्य इत्यन्वयः । २. गर्भादेवेश्वरः श्रीमानित्यर्थः । ३ देवभोगाय योग्यं शरीरं यस्य तेन ।
श्रीनेमिकुमारस्य स्वजनान्यप्रत्युतरः।
।।३११ ॥