________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१०॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ग्रीवायां रज्जुभिर्बद्धाः केऽपि केऽपि च पादयोः । केऽपि क्षिप्ताः पञ्जरान्तः केऽपि पाशेषु पातिताः । १७७ । उन्मुखा दीननयना वेपमानशरीरकाः । ते प्रेक्षांचक्रिरे नेमि प्रीणकं दर्शनादपि ।। १७८ ।। पाहि पाहीति ते नेमि स्वस्वभाषाभिरब्रुवन् । तांश्च सारथिमाज्ञाप्य नेमिनाथोऽप्यमोचयत् ।। १७९ ।। स्वं स्वं स्थानं ततस्तेषु गतेषु प्राणिषु प्रभुः । रथं निवर्तयामास पुनर्निजगृहं प्रति ।। १८० ।। शिवा समुद्रविजयः कृष्णो रामोऽपरेऽपि हि । विहाय स्वस्वयानानि नेमिनःपुरतोऽभवन् ।। १८१ ॥ शिवासमुद्रविजयावूचाते साश्रुलोचनौ । कस्मादकस्मादप्यस्माद्विनिवृत्तस्त्वमुत्सवात् ।। १८२ ।। नेमिरप्यब्रवीदेते प्राणिनो बन्धनैर्यथा । बद्धास्तथा वयमपि तिष्ठामः कर्मबन्धनैः ।। १८३ ॥ यथैषां बन्धनान्मोक्षः कर्मबन्धात्तथात्मनः । कर्तुं दीक्षामुपादास्ये सौख्याद्वैतनिबन्धनाम् ।। १८४ ।। तन्नेमिवचनं श्रुत्वा तौ द्वावपि मुमूर्छतुः । रुरुदुर्यदवः सर्वेऽप्यनुद्धतविलोचनाः ।। १८५ ॥ शिवासमुद्रविजयौ समाश्वास्य जनार्दनः । रुदितं च प्रतिषिध्य बभाषेऽरिष्टनेमिनम् ॥ १८६ ॥ मम रामस्य तातानां सदा मान्योऽसि मानद । रुपं निरुपमं चेदं यौवनं च नवं तव ।। १८७ ॥ किं च सापि स्नुषा राजीमती राजीवलोचना । तवानुरुपा तब्रूहि किं ते वैराग्यकारणम् ।। १८८ ।। ये चैते पशवो दृष्टास्त्वया तेऽपि हि मोचिताः । पितॄणां बान्धवानां च तत्पूरय मनोरथम् ।। १८९ ॥ १ अनुद्धतानि मन्दानि विलोचनानि येषां ते ।
श्रीनेमि
कुमारं
विवाहायाऽभ्यर्थन्तो यादवाः।
॥३१०॥