________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०९॥
| अष्टमं पर्व
नवमः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
निध्यायन्ती दृशा नेमि सा दध्याविति चेतसा । दुःप्रापोऽयं वरोऽस्माकं मनसोऽपि न गोचरः ।। १६४ ।। एषोऽपि यदि मे भर्ता त्रैलोक्यस्यैकभूषणम् । संपद्यते तदा किं मे न पूर्ण जन्मनः फलम् ।। १६५ ।। यद्यप्ययमिहायातः परिणेतुमनाः स्वयम् । तथापि नाहं प्रत्येमि कैः पुण्यैः प्राप्यते ह्यसौ ।। १६६ ॥ एवं तस्याश्चिन्तयन्त्याः पस्पन्दे दक्षिणेक्षणम् । बाहुश्च दक्षिणो जज्ञे संतापश्च मनोऽङ्गयोः ।। १६७ ॥ राजीमती तत्सखीनामाचख्यौ गद्गदाक्षरम् । नेत्राभ्यामश्रु वर्षन्ती धारागृहवधूरिव ।। १६८ ॥ सख्योऽप्यूचुः सखि शान्तं पापं हतममंगलम् । सकलाः कुलदेव्यस्ते भवंतु शिवतातयः ।। १६९ ।। धीरा भव वरस्तेऽसावागात् पाणिग्रहोत्सुकः । अनिष्टचिन्ता ते केयं वर्तमाने महोत्सवे ।। १७० ।। शुश्राव नेमिश्चागच्छन् प्राणिनां करुणस्वरम् । किमेतदित्यपृच्छच्च संविदानोऽपि सारथिम् ।। १७१ ॥ अथाख्यत् सारथिर्नाथ किं न जानास्यमी हि ते । विवाहे भोज्यसात् कर्तुं नाना प्राणिन आहृताः ॥१७२ ॥ मेषादयो भूमिचरास्तित्तिर्याद्या नभश्चराः । ग्राम्या आटविकाश्चामी स्वामिन् यास्यन्ति पंचताम् ।। १७३ ॥ आरक्ष रक्ष्यमाणाश्च सन्त्यमी वाटकान्तरे । आरटन्तः प्राणभयं सर्वेषां हि महद्भयम् ।। १७४ ।। ततो नेमिर्दयावीरो बभाषे निजसारथिम् । यत्रैते प्राणिनः सन्ति स्यन्दनं नय तत्र मे ॥ १७५ ॥ तथैव सारथिश्चक्रे ददर्श भगवानपि । विविधान् प्राणिनः प्राणापहारचकितात्मनः ।। १७६ ।। १शिवे कल्याणे तातिराधिक्यं याभ्यस्ताः । २ सम्यग्जानन्नपि ।
श्रीनेमिकुमारेण पशुभोचनम् ।
॥३०९ ॥