________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०८॥
अष्टमं पर्व नवमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
पौरैर्मिथो दर्श्यमानो वर्ण्यमानश्च संमदात् । उपोग्रसेनसदनमाससाद शिवासुतः ।। १५२ ।। नेम्यागमतुमुलेन स्तनितेनेव केकिनी । गाढोत्कंठाभवद्राजीमती राजीवलोचना ।। १५३ ।। सख्यस्तामूचिरे भावविदो धन्यासि सुन्दरि । त्रैलोक्यसुन्दरो यस्या नेमिः पाणिं ग्रहीष्यति ।। १५४ ।। नेम्यागन्ता यद्यपीह तथाप्यत्युत्सुका वयम् । तमायान्तं गवाक्षस्थाः पश्यामः कमलेक्षणे ।। १५५ ।। मनोगतार्थाभिधानान्मुदिता सापि संभ्रमात् । राजीमत्यभिगवाक्षं प्रचचाल सखीवृता ।। १५६ ।। धम्मिल्लं मालतीगर्भ बिभ्रती सेन्दुमेघवत् । पराभवन्ती नेत्राभ्यां श्रवणोत्तंसपंकजे ।। १५७ ॥ समुक्ताकुंडलाभ्यां च कर्णाभ्यां जितशुक्तिका । सयावकाधरदला पक्वबिंबेव बिंबिका ॥१५८ ।। सनिष्कं बिभ्रती कंठे हेममेखलकंबुवत् । हारांकितौ च वक्षोजौ चक्रावात्तबिसाविव ।। १५९ ।। राजती पाणिपद्मनाब्जखंडेनेव निम्नगा । मुष्टिसंग्राह्यमध्या च मान्मथीव धनुर्लता ।। १६० ॥ सौवर्णफलकेनेव नितंबेन मनोरमा । रंभोरुरेणिकाजंघा रत्नतुल्यनखावलिः ।। १६१ ॥ सदशश्वेतवसना सगोशीर्षविलेपना । विमानगर्ने देवीव गवाक्षे निषसाद सा ।। १६२ ।।
॥षड्भिः कुलकम् ॥ तत्र स्थिता च सापश्यदूरादपि हि नेमिनम् । प्रत्यक्षमिव कंदर्प हृदि कंदर्पदीपिनम् ॥१६३ ॥ १ कमलनेत्रा । २ सनिष्कं कंठभूषणम् । ३ हेम्नो मेखला यस्मिन्स चासौ कंबुश्च तद्वत् । ४ चक्रो चक्रवाकपक्षिणौ ।
| श्रीनेमि|कुमारविवाहोत्सवः ।
।।३०८ ॥