________________
-
त्रिषष्टिशलाकापुरुषचरिते ॥३०७॥
अष्टमं पर्व नवमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
RAHARASHASRHARSHAN
विवाहासन्नदिवसे दशार्हाः सीरिशाङ्गिणौ । श्रीशिवारोहिणीदेवक्यादयश्चापि मातरः ॥ १३९ ।। रेवत्याद्या बलपत्न्यो भामाद्याश्च हरिप्रियाः । धात्र्यो महत्तराश्चान्यास्तारमारब्धगीतयः ।। १४० ।। प्राङ्मुखं स्थापयामासुर्नेमिनाथं महासने । स्नपयामासतुः प्रीत्या स्वयं च बलशाह्मिणौ ।। १४१ ॥ बद्धप्रतिसरं नेमि करे नाराचधारिणम् । कृत्वा जगाम गोविन्द उग्रसेननिकेतने ।। १४२ ॥ तत्र राजीमती बालामबालेन्दुसमाननाम् । कृष्णोऽधिवासयामास तेनैव विधिना स्वयम् ।। १४३ ॥ पुनर्ययौ निजगृहं व्यतिक्रम्य च शर्वरीम् । नेमि संवाहयामास गन्तुं वैवाहिकौकसि ।। १४४ ॥ अथ श्वेतातपत्रेण विभान् श्वेतैश्च चामरैः । सदशश्वेतसंव्यानो मुक्ताभरणभूषितः ।। १४५ ॥ कृष्णांगरागो गोशीर्षचन्दनेनातिहारिणा । आरुरोहारिष्टनेमिः स्यन्दनं श्वेतवाजिनम् ।। १४६ ।। पुरो नेमिकुमारस्य कुमाराः कोटिशोऽचलन् । तुरंगहेषानिर्घोषैर्बधिरीकृतदिङ्मुखाः ।। १४७ ।। पार्श्वतो भूभुजोऽभूवन्निभारुढाः सहस्रशः । पृष्ठे दशार्हा गोविन्दो मुशली चावतस्थिरे ।। १४८ ।। महार्ण्यशिबिकारुढाः सर्वाश्चान्तःपुरस्त्रियः । चेलुमंगलगायिन्योऽपरा अपि वरस्त्रियः ।। १४९ ।। एवं महा श्रीनेमिः प्रतस्थे राजवर्त्मनि । पठद्भिर्मंगलान्युच्चैः पुरो मंगलपाठकैः ।। १५० ॥ मार्गे गृहाट्टवलभीस्थितानां पौरयोषिताम् । दशो निपेतुः प्रेमाद्रा नेमौ मंगललाजवत् ॥ १५१ ।। १ बद्धं प्रतिसरं करसूत्रं यस्य तम् । २ रात्रिम् ।
श्रीनेमिकुमारविवाहोत्सवः।
॥३०७॥