________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०६॥
अष्टमं पर्व नवमः सर्गः |श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णोऽप्युवाच ते कन्या राजनाजीमतीति या । गुणैर्मदधिकस्यारे नेमेर्मदनुजस्य सा ।। १२६ ।। भोजोऽपि निजगादैवं भाग्यैर्नः फलितं प्रभो । हरिर्यद्गृहमायाति कृतार्थांश्च करोति नः ॥ १२७ ॥ एतद्गृहमियं लक्ष्मीरेते वयमियं सुता । सर्वं चान्यत्तवायत्तं स्वायत्ते प्रार्थनापि का ।। १२८ ।। इत्युक्त्या मुदितः कृष्णः समुद्रविजयाय तत् । गत्वाचख्याववादीच्च समुद्रविजयोऽप्यदः ॥ १२९ ।। भक्तिः पितृषु ते वत्स वात्सल्यं भ्रातृषूच्चकैः । भोगाभिमुख्यं यन्नेमेरकार्षीनः प्रमोदकृत् ।। १३० ॥ इयत्कालं मनस्येव विलीनोऽभून्मनोरथः । अरिष्टनेमिर्यत्कन्याविवाहमनुमंस्यते ।। १३१ ।। अथ क्रोष्टुकिमाहूय समुद्रविजयो नृपः । पप्रच्छ दिवसं नेमिराजीमत्योर्विवाहने ।। १३२ ।। उवाच क्रोष्टुकिश्चैवं शुभारंभास्तपात्यये । न खल्वन्येऽपि युज्यन्ते विवाहस्य तु का कथा ।। १३३ ॥ समुद्रस्तं बभाषेऽथ कालक्षेपोऽत्र नार्हति । नेमिः कथंचित् कृष्णेन विवाहाय प्रवर्तितः ॥१३४ ।। मा भूद्विवाहप्रत्यूहो नेदीयस्तद्दिनं वद । गान्धर्व इव वीवाहो भूयाद्भवदनुज्ञया ।। १३५ ॥ विमृश्य क्रोष्टुकिश्चाख्यद्यद्येवं तद्यदूद्वह । श्रावणस्य श्वेतषष्ठ्यां कार्यमेतत्प्रयोजनम् ॥ १३६ ।। सत्कृत्य क्रोष्टुकिं राजा व्यसाक्षीत्तं च वासरम् । भोजायाख्यापयामास ततो द्वावप्यसज्जताम् ।। १३७ ॥ कृष्णोऽपि द्वारकापुर्या प्रत्यय़ प्रतिगोपुरम् । प्रतिगेहं रत्नमंचतोरणादीनकारयत् ।। १३८ ।। १ तप”रत्यये नाशे वर्षास्वित्यर्थः ।
श्रीनेमिकुमाराय राजीमतिमार्गणम् ।
॥३०६ ॥