________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०५॥
अष्टमं पर्व नवमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
इत्युक्ते पादयोर्नेमे रुक्मिण्याद्या हरिस्त्रियः । निपेतुः प्रार्थयमाना विवाहाय कृताग्रहाः ।। ११३ ।। तथार्थ्यमानं ताभिश्च प्रेक्ष्य कृष्णोऽपि नेमिनम् । उपेत्य प्रार्थयांचक्रे पाणिग्रहणकर्मणि ।।११४ ।। अन्येऽपि यदवो नेमिमूचुर्घातुर्वचः कुरु । शिवासमुद्रविजयौ मोदयान्यानपि स्वकान् ।। ११५ ॥ एवं तैः साग्रहैर्नेमिरुपरुद्धो व्यचिंतयत् । अहो अज्ञत्वमेतेषां धिग्दाक्षिण्यं ममाप्यदः ।। ११६ ।। न केवलं स्वयममी पतति भवसागरे । आबद्धस्नेहशिलया पातयन्ति परानपि ।। ११७ ॥ वाङमात्रेणानुमंतव्यममीषामधुना वचः । आत्मनीनं विधातव्यमवश्यं समये मया ।। ११८ ।। ऋषभस्तीर्थकृद्यच्च विवाहं विदधे पुरा । तत्तथा भोग्यकर्मत्वाद्विभिन्ना कर्मणां गतिः ।। ११९ ॥ एवं विमृश्य श्रीनेमिस्तद्वचः प्रत्यपद्यत । तच्छुत्वा जहषुः सर्वे समुद्रविजयादयः ।। १२० ।। तत्रातिवाह्य ग्रीष्मर्तुं गोविन्दः सपरिच्छदः । जगाम द्वारकां नेमियोग्यकन्येक्षणोत्सुकः ।। १२१ ॥ तमूचे सत्यभामाथ भगिनी मे कनीयसी । अस्ति राजीमती नाम्नानुरुपारिष्टनेमिनः ।। १२२ ॥ कृष्णोऽप्युवाच तामेवं सत्ये सत्यं हितासि मे । नेमिनाथानुरुपस्त्रीचिन्ताब्धेरुद्धृतोऽस्मि यत् ।। १२३ ।। अथोत्थाय स्वयं कृष्ण उग्रसेनगृहं ययौ । यदुभिः पुरलोकैश्च वीक्ष्यमाणः ससंभ्रमैः ।। १२४ ।। उग्रसेनोऽप्यर्घपाद्यादिना सत्कृत्य शाङ्गिणम् । सिंहासने चोपवेश्य पप्रच्छागमकारणम् ।। १२५ ।। १ विचित्रा।
| श्रीनेमि
कुमाराय
राजीमतिमार्गणम् ।
॥३०५ ।।