________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०४॥
अष्टमं पर्व नवमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
त्रैलोक्ये तेऽप्रतिरुपं रुपं लावण्यपावितम् । यौवनं च नवोद्भेदं सत्येवं किमियं स्थितिः ।। १०० ॥ पितरौ भ्रातरश्चैते भ्रातुर्जाया वयं च ते । याचामहे विवाहाय कुरुष्वैषां समीहितम् ।। १०१ ।। वंडमात्र इवैकांगो विना पत्नीपरिग्रहम् । कालं कियन्तं नेतासि विमृश स्वयमप्यहो ।। १०२ ।। किमज्ञो नीरसो वाऽसि क्लीबो वासीति शंस नः । स्त्रीभोगेन विनासि त्वं कुमारारण्यपुष्पवत् ।। १०३ ।। यथा प्रावर्तयत्तीर्थं प्रथमं वृषभध्वजः । तथा स एव विवाहमंगलान्यप्यदर्शयत् ॥ १०४ ॥ समये प्रतिपद्येथा ब्रह्मापि हि यथारुचि । गार्हस्थ्ये नोचितं ब्रह्म मंत्रोद्गार इवाशुचौ ॥१०५ ॥ अथावदज्जांबवती त्वद्वंशे मुनिसुव्रतः । कृतोद्वाहो जातसूनुर्जज्ञे तीर्थकरः प्रभुः ।।१०६ ।। ततः परस्तादर्वाक् च श्रूयन्ते जिनशासने । कृतोद्वाहाश्च मुक्ताश्च वेत्सि त्वमपि तन्ननु ।। १०७ ॥ मुमुक्षुर्नूतनोऽसि त्वं मुक्तानामपि वर्त्म यः । विहाय जन्मतोऽप्येवं यदभूः स्त्रीपराङ्मुखः ।। १०८ ॥ कृतप्रणयकोपोचे भामा सखि वृथैव किम् । अमुं वदसि साम्ना त्वं सामसाध्यो न खल्वयम् ।। १०९ ।। उक्तः सानुनयं पित्रा भ्रात्रा च ज्यायसाप्ययम् । अपरैश्च विवाहार्थे मेने न खलु तानपि ॥ ११० ॥ अस्माभिरेष संभूय तत्सर्वाभिर्निरुध्यताम् । न मंस्यतेऽस्मद्वचश्चेन्मोक्तव्यस्तन्न सर्वथा ।। १११ ॥ अथोचिरे लक्ष्मणाद्या आराध्यो देवरो ह्यसौ । सकोपमिव नो वाच्यमुपायोऽस्य प्रसादनम् ।। ११२ ॥ १ वंडः स्त्रीरहितः भाषायां 'वांढो' इति ख्यातः ।
कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय
प्रेरणम् ।
॥३०४ ।।