________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०३॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
क्व यासि देवरेदानीमित्युक्त्वा हरियोषितः । नेमि युगपदाजघ्नुश्चपेटाताडितैर्जलैः ।। ८७ ॥ पाणिभिः कृष्णपत्नीनां जलाच्छोटनपातिभिः । उत्पल्लवस्तरुरिवारिष्टनेमिरराजत ।। ८८ ॥ स्त्रीस्पर्शज्ञापनायांभःक्रीडाव्याजेन नेमिनः । ताः कंठे शिश्लिषुर्वक्षस्याजघ्नुर्दोष्णि चाप्यधु ।। ८९ ॥ सहस्रपत्रं श्रीनेमेरातपत्रमिवोपरि । शुद्धान्तच्छत्रधारीव क्रीडया काप्यधारयत् ।। ९० ॥ काचिच्च नलिनीनालं नेमिनः कंठकन्दले । चिक्षेप नर्मणा स्तंबेरमस्यालानदामवत् ।। ९१ ।। यत् किंचनाप्यपदिश्य शतपत्रेण नेमिनम् । काप्याजघान हृदये स्मरास्त्रैरप्यनाहते ।। ९२ ।। अविकारः पुनर्नेमिकुमारोऽपि प्रजावतीः । क्रीडयामास ताः सर्वाः कृतप्रतिकृतैश्चिरम् ॥९३ ।। क्रीडन्तं भ्रातरं पश्यंस्तथाहृष्यज्जनार्दनः । तत्रांभसि चिरं तस्थौ नन्दीवर इव द्विपः ।। ९४ ।। समापितांभःक्रीडोऽथ सरसो निर्ययौ हरिः । भामारुक्मिण्यादयोऽपि गत्वा तीरेऽवतस्थिरे ।। ९५ ।। सरसो निरगान्नेमिकुमारोऽपि मरालवत् । शिश्रिये तीरदेशं च रुक्मिण्यादिभिराश्रितम् ।। ९६ ।। उत्थाय रुक्मिणी तत्र स्वयं रत्नासनं ददौ । ममार्ज चांगं श्रीनेमेनिजेनोत्तरवाससा ।। ९७ ॥ नर्मप्रश्रयपूर्वं च सत्याभाषिष्ट नेमिनम् । सदा नः सहसे तेनाभीता त्वां वच्मि देवर ॥९८ ।। षोडशस्त्रीसहस्राधिभर्तुर्भ्रातापि शाङ्गिणः । अप्येकामपि किं कन्यां न युद्वहसि सुन्दर ॥ ९९ ।। १ अंतःपुरस्य छत्रधारी । २. प्रातृपलीः (भाभी 'लोके)।
ANSARAHARASHARAHARASHTRA
| कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय
प्रेरणम् ।
॥३०३ ॥