________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०२॥
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नारीभिर्नलिनीनालान्याहितान्यभितो हदि । मुक्ताहारेभ्योऽप्यधिकं सौभाग्यमुपलेभिरे ॥७४ ।। निपीडयन्तो बाहुभ्यां गाढगाढं मुहुर्मुहुः । युवानो नोरसोऽमुञ्चञ्जलार्दा वल्लभामिव ।। ७५ ॥ एवं ग्रीष्मे धर्मभीष्मे कृष्णः सान्तःपुरोऽपि हि । ययौ रैवतकोद्यानसरसी नेमिना सह ।। ७६ ।। तदन्तर्मज्जनक्रीडां कर्तुं विष्णुः सनेम्यथ । सान्तःपुरः प्रविवेश हंसवन्मानसांभसि ॥७७ ।। तत्राकंठं निमग्नानां वदनैर्विष्णुयोषिताम् । नवोद्भिन्नाब्जिनीखंडभ्रान्तिः सद्योऽप्यजायत ।। ७८ ।। आचिक्षेप हरिः कांचित् स्वयमअलिवारिणा । छेका प्रत्यक्षिपत् सापि गंडूषपयसैव तम् ॥ ७९ ।। काभिश्च विलगन्तीभिर्भीरुभिर्जलभीरुभिः । दधौ सशोलभंजीकस्तंभशोभा जनार्दनः ।।८।। असकृद्वीचय इवोल्ललन्त्यो हरिणीदृशः । रभसादास्फलंति स्म शापाणेरुरस्तटे ।। ८१ ॥ जलाघातेन ताम्रत्वं दधुगदृशां दृशः । स्वभूषणाअनापोहजातयेव रुषाधिकम् ।। ८२ ॥ विपक्षनामग्रहणेनाहूता कापि शाह्मिणा । ताडयामास पोन सर्वलेनेव दन्तिनम् ॥ ८३ ॥ चिरमन्यां वीक्ष्यमाणां काचिदभ्येत्य चक्षुषोः । सरोरुहरजोमित्रैर्जघानांभोभिरुद्धतैः ॥ ८४ ।। शाङ्गिणं परितो भ्रमुर्भूयो भूयो मृगीदृशः । स्मारयन्त्यो गोपभावलीलाहल्लीसकश्रियम् ॥८५ ।। निर्विकारो नेमिरपि तत्र भ्रात्रुपरोधतः । भ्रातुर्जायाभिरक्रीडद्वेष्ट्यमानः सर्मभिः ॥ ८६ ॥ १ चतुरा । २ सपुत्तलिकस्तंभशोभाम् । ३ सर्व लातीति सर्वलं शस्त्रविशेषः । ४ स्त्रीमंडलकृतं नृत्यम् । ५ नर्मवाक्यसहिताभिः ।
कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय प्रेरणम् ।
। ॥३०२ ॥