________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०१॥
अष्टमं पर्व | नवमः
सर्गः
| श्रीअरिष्टनेमिजिनचरितम् ।
एवं विचिन्त्य गोविन्दो ग्रथित्वा च स्वयं स्रजम् । नेमेः कण्ठे निचिक्षेप मुक्ताहारमिवापरम् ।।६०॥ विदग्धाः सत्यभामाद्या अपि भावविदो हरेः । कुसुमाभरणैश्चित्रैः श्रीनेमिमुपतस्थिरे ॥६१ ॥ पीनोन्नतकुचाग्राभ्यां स्पृशन्ती कापि पृष्ठतः । नेमेर्बबन्ध धम्मिलं बन्धुरैः पुष्पदामभिः ।। ६२ ।। उदस्तदोर्लता प्रादुर्दोर्मूला कापि नेमिनः । शिरस्युत्तंसमग्रस्था विदधे हरिवल्लभा ।। ६३ ।। विधृत्य पाणिना कर्णे कापि कर्णावतंसकम् । नेमिनो रचयामास स्मरस्येव जयध्वजाम् ।। ६४ ॥ बाह्रोः पुष्पागदं कापि भूयो भूयो नवं नवम् । बबंध नेमिनः क्रीडाकालक्षेपविधित्सया ॥६५ ।। एवं ता विदधुर्नेमेरुपचारमृतूचितम् । तासु श्रीनेमिनाथोऽपि निर्विकारमुपाचरत् ।। ६६ ॥ एवं विचित्रक्रीडाभिरहोरात्रं जनार्दनः । स्थित्वा पुनारिकायां जगाम सपरिच्छदः ॥ ७ ॥ समुद्रविजयोऽप्युत्को नेमिपाणिग्रहोत्सवे । तस्थौ दशार्दा अन्येऽपि शाङ्गपाणिश्च सर्वदा ।। ६८ ॥ वसन्ततुरतीयाय सनेमेः क्रीडतो हरेः । धर्मर्तुश्चाययौ प्रौढीकुर्वन्नर्कमिव स्मरम् ।।६९ ॥ बालातपोऽप्यसह्योऽभूत् प्रताप इव शाङ्गिणः । निशायामपि नाशाम्यधर्मः कर्मेव देहिनाम् ॥ ७० ॥ वाससी श्वेतमसृणे रंभान्तस्त्वक्सनाभिनी । मृगनाभीधूपिते च युवानस्तत्र पर्यधुः ।।७१ ।। तालवृन्तं कराद्दतिकर्णतालचलाचलम् । नेषदप्यमुचन्नार्यो मन्मथस्येव शासनम् ॥ ७२ ॥ विचित्रकौसुमरसद्विगुणीकृतसौरभैः । भूयो भूयोऽभ्यषिञ्चन् स्वं युवानश्चन्दनांबुभिः ।।७३ ॥ १ प्रादुर्भूतं दोर्मूलं यस्याः सा । २ उत्सुकः । ३ दंतिनः कर्णतालवच्चलम् । * कदली ।
कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय प्रेरणम् ।
॥३०१ ।।