________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३०० ॥
|
चंपकाशोकबकुलादिषु केऽप्यवचिच्यिरे । पुष्पाणि सप्रियाः पुष्पाहरविद्याधरा इव ।। ४९ ।। स्वयं ग्रथित्वा कुसुमाभरणानि मृगीदृशाम् । अंगेषु निदधुः केऽपि विदग्धा मालिका इव ।। ५० । नव्यपल्लवतल्पेषु लतावेश्मसु केऽपि च । कांदर्पिका इव सुरा रेमिरे रमणीजनैः ।। ५१ ।। केऽपि गाढतरश्रांता लुलन्तः सारणीतटे । भोगिनो भोगिन इव पपुर्मलयमारुतम् ॥ ५२ ॥ केऽपि कँकिल्लिशाखावलंबिदोलासु साङ्गनाः । आन्दोलनेन चिक्रीडू रतिस्मरविडबिनः ।। ५३ । प्रियायाः पादघातेन केचित् कंकिल्लिपादपान् । मद्यगंडूषदानेन केचिच्च बकुलद्रुमान् ।। ५४ ।। सरागदृष्टिदानेन केचित्तिलकशाखिनः । गाढालिंगनदानेनापरे कुरुबकद्रुमान् ।। ५५ ।। अप्यन्यदोहदैर्वृक्षानपरानपि कामिनः । विशेषपुष्पितीचक्रुः स्थिताः पुष्पेषुशासने ।। ५६ ।। ॥ त्रिभिर्विशेषकम् ॥
कृष्णोऽपि मिना सार्धं भामादिस्त्रीभिरावृतः । क्रीडन्नितस्ततोऽभ्राम्यत् वने वन्य इव द्विपः ॥ ५७ ॥ पश्यन्नेमिं हरिर्दध्यौ नेमेर्भोगेषु चेन्मनः । भवेत्तदा कृतार्था श्रीः सौभ्रात्रं च तदैव मे ।। ५८ ।। आलंबनोद्दीपनैस्तद्विभावैरसकृन्मया । एषोऽनुकूल्यः पूर्येत यद्येवं मे मनोरथः ॥ ५९ ॥
१ विलासिनः । २ सर्पाः । ३ पुष्पाण्येवेषवो बाणा यस्य सः कामस्तस्य शासने । ४ सुभ्रातुर्भावः सौभ्रात्रम् । ५ रत्याद्युद्बोधको लोके विभावः काव्यनाट्यः ।
अष्टमं पर्व नवमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णान्तः
पुरेण नेमिकुमारस्य विवाहाय
प्रेरणम् ।
।। ३०० ।।