________________
त्रिषष्टिशलाकापुरुषचरिते IR९९॥
अष्टमं पर्व नवमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
प्रतीक्षमाणः समयं जन्मतो ब्रह्मचार्ययम् । आदास्यते परिव्रज्यां मान्यथा कृष्ण चिन्तय ॥३६ ॥ इति देवतयाप्युक्तः प्रीतो रामं विसृष्टवान् । जगामान्तःपुरं कृष्णो नेमि चाजूहवत्तदा ॥३७ ॥ रत्नसिंहासनासीनौ तत्रोभौ शाहिनेमिनौ । वारस्त्रीलोठ्यमानांभःकुंभौ सपदि सस्नतुः ।। ३८ ॥ उन्मृष्टांगौ देवदूष्यैर्विलिप्तौ दिव्यचंदनैः । तत्रैव विदधाते च भोजनं हरिनेमिनौ ।। ३९ ॥ अथोचे सौविदान् कृष्णो भ्राता नेमिरसौ मम । स्वस्मादप्यधिकस्तेन न स्खल्योऽन्तःपुरे क्वचित् ।।४० ।। समस्तानामपि भ्रातुर्जायानां मध्यवर्त्यसौ । रमतां नेमिकुमारो न दोषो वोऽस्ति कश्चन ।। ४१ ।। पत्नीश्चोवाच भामाद्याः प्राणभूतो मम ह्ययम् । नेमिर्वो देवरो मान्यः क्रीडनीयोऽपशंकितम् ।। ४२ ।। इत्युक्ते शाङ्गिणा तत्रान्तःपुरे ताभिरर्चितः । निर्विकारो विजहार नेमिर्भोगपराङ्मुखः ।। ४३ ॥ आत्मनो निर्विशेषेण सहैवारिष्टनेमिना । हरिः सान्तःपुरः प्रीतो रेमे क्रीडाचलादिषु ॥ ४४ ॥ कृष्णोऽन्यदा वसन्तौ पौरैः सर्वेश्च वृष्णिभिः । सान्तःपुरो रैवतकोद्याने नेमियुतो ययौ ॥ ४५ ॥ चिक्रीडुर्विविधं तत्र कुमारा नागरा अपि । उद्याने नन्दन इव सुरासुरकुमारकाः ॥४६ ।। बकुलस्य तले केऽपि बकुलामोदशालिनीम् । मदिरां स्मरजीवातुं पपुरापानभूमिषु ।। ४७ ॥ केऽप्युपावीणयन केऽपि वसन्तेनोच्चकैर्जगुः । ननृतुः केऽपि च क्षीवाः सस्त्रियः किन्नरा इव ।। ४८ ।। १ मद्यपानस्थानेषु । २ वसन्तो रागविशेषः । ३ मत्ताः ।
कृष्णान्तः
पुरेण नेमि
कुमारस्य विवाहाय प्रेरणम् ।
॥२९९ ।।