________________
त्रिषष्टिशलाकापुरुषचरिते IR९८॥
| अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
यथासौ याति नानर्थ मद्भुजस्थाम वेत्ति च । तथा कार्यमिति ध्यात्वा जनार्दनमभाषत ।। २३ ॥ प्राकृतानामिदं युद्धं मुहुर्भूलुठनाकुलम् । मिथो दो मनेनैव तद्भूयाधुद्धमावयोः ।। २४ ।। तत्प्रपद्य वचो विष्णुः शाखिशाखामिवायताम् । दधे भुजां तां च नेमि लनाममनामयत् ।। २५ ॥ तथैव नेमिनाथोऽपि दधे वामभुजं निजम् । तत्र सर्वोजसा विष्णुर्ललंबे द्रौ कपिर्यथा ।। २६ ॥ दोःस्तंभो विष्णुना नेमे नाम्यत मनागपि । वनस्तंबेरमेणेव दंतभूमिर्महागिरेः ।। २७ ॥ मुक्त्वा नेमिभुजस्तंभं निढुवानो विलक्षताम् । नेमिनाथं समालिंगन्नित्यवोचत शाभृित् ।। २८ ।। यथा ममौजसा रामो मन्यते तृणवज्जगत् । तथा मन्ये तृणायाहं विश्वं भ्रातस्तवौजसा ॥२९ ।। इत्युक्त्वा व्यसृजन्नेमि विष्णुरुचे च सीरिणम् । दृष्टं भ्रातस्त्वया भ्रातुर्वीर्य त्रिभुवनोत्तरम् ।। ३० ॥ यथार्धचक्री दोष्ण्यस्याभवं पक्षीव पादपे । मन्ये तथौजसामुष्य चक्री वज्री च नो समः ।।३१ ।। ईदृशेनौजसासौ किं समग्रमपि भारतम् । न साधयति किं तिष्ठत्येवमेवानुजः स नौ ।। ३२ ॥ ऊचे रामो यथा स्थाम्ना ज्ञायते चक्रितोऽधिकः । तथैव शान्तया मूर्त्या लक्ष्यते राज्यनिःस्पृहः ।।३३ ॥ इति रामोक्तेऽपि हरिं साशंकमनुजौजसा । प्रेक्ष्योचे देवता मा स्म ताम्यः श्रृणु जिनोदितम् ॥ ३४ ॥ पुरा नमिजिनेनोक्तं नेमिरर्हन् भविष्यति । कुमार एव सन्नेष नार्थो राज्यश्रियास्य तत् ।। ३५ ॥ १ वृक्षे । २ वनहस्तिना । ३ तृणतुल्यम् । ४ आवयोः ।
नेमिकुमारसार्द्ध कृष्णस्य बलपरीक्षा।
॥२९८ ॥