________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
I२९७॥
स्तंभानुन्मूल्य करिणस्त्रेसुस्त्रोटितश्रृंखलाः । पलायाञ्चक्रिरे चाश्वा निरस्तमुखबन्धनाः ॥ १० ॥ तध्वनेर्वजनिर्घोषादिवामूर्छन् पुरीजनाः । अस्त्रागारारक्षकाश्च निपत्यास्थुम॒ता इव ।। ११ ॥ इति दध्यौ च गोविन्दः शंखः केनैष वादितः । किं चक्री कश्चिदुत्पन्नो वज्री वा भुवमागतः ।। १२ ।। मयापि वादिते शंखे क्षोभः सामान्यभूभुजाम् । अनेन शंखे त्वाध्माते मम रामस्य चाभवत् ।। १३ ।। इति कृष्णं चिन्तयन्तमस्त्रारक्षा व्यजिज्ञपन्। लीलया पाञ्चजन्योऽद्य पूरितोऽरिष्टनेमिना ।। १४ ॥ तच्छुत्वा विस्मयापन्नोऽश्रद्दधानश्च चेतसि । यावत्तस्थौ हरिस्तावत्तत्रोपेयाय नेम्यपि ।। १५ ।। कृष्णः कृतावहित्थोऽथ नेमिनाथं ससंभ्रमः । उपवेश्यासनेऽनर्ये सगौरवमभाषत ।। १६ ।। पाञ्चजन्योऽधुना भ्रातः किमयं पूरितस्त्वया । तन्नादेन मही सर्वा क्षोभिताधापि वर्तते ।। १७ ।। आमेति नेमिनाप्युक्ते तद्दोर्बलमपि स्वयम् । परीक्षितुमनाः कृष्णस्तं सगौरवमब्रवीत् ।। १८ ॥ पाञ्चजन्यं पूरयितुं मदृते नापरः क्षमः । भवता पूरिते त्वस्मिन् भ्रातः प्रीतोऽस्मि संप्रति ।। १९ ॥ मां विशेषात् प्रीणयितुं स्वदोःस्थामापि दर्शय ।युध्यस्व बाहुयुद्धेन मयैव सह मानद ॥२०॥ एवमस्त्विति तेनोक्ते कुमारपरिवारितौ । अस्त्रागारं जग्मतुस्तौ भ्रातरौ वीरकुञ्जरौ ॥ २१ ॥ प्रकृत्या सदयो नेमिर्दध्याविति ममोरसा । दोष्णा पादेन वाक्रान्तः कथं कृष्णो भविष्यति ॥ २२ ॥ १ कृताऽवहित्था भावविशेषो येन सः । २ स्वमुजाबलम् ।
नेमिकुमार
सार्द्ध
कृष्णस्य बलपरीक्षा।
॥२९७ ॥