SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ( नवमः सर्गः ।। त्रिषष्टिशलाकापुरुषचरिते IR९६॥ अष्टम पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । नेमि इतश्च क्रीडया नेमिः कुमारैः सह पर्यटन् । विवेश वासुदेवस्यायुधशालामशंकितः ॥ १ ॥ तत्र चक्रमतिभास्वद्भास्वबिंबमिवोच्चकैः । शाकौमोदकीखड्गान् भोगिराड्भोगभीषणान् ॥२॥ पांचजन्यं जन्यनाट्यनांदीतूर्य महत्तरम् । विष्णोर्यशःकोशमिव कुमारः समुदैक्षत ।। ३ ।। ।। युग्मम् ।। कौतुकाच्छंखमादित्सु विज्ञायारिष्टनेमिनम् । प्रणम्यास्त्रगृहारक्षश्चारुकृष्णोऽब्रवीदिति ।। ४ ।। यद्यप्यसि हरेता दोष्मानसि तथापि हि । नादातुमपि शक्नोषि शंख पूरयितुं कुतः ॥ ५ ॥ इमं हि शंखमादातुमाध्मातुं च हरिं विना । न क्षमः कोऽपि मा कार्षीस्तत्प्रयासं मुधैव हि ॥ ६ ॥ स्मित्वाथ नेमिस्तं शंखमुद्दधे लीलयापि हि । दध्मौ चाधरविश्रान्तदंतज्योत्स्नाविडंबकम् ।।७।। द्वारकावप्रसंमूर्छदुद्वेलजलधिध्वनेः । सब्रह्मचारी तद्ध्वानः पूरयामास रोदसी ।। ८ ॥ प्राकारशैलश्रृंगाणि प्रासादाश्च चकपिरे । चुक्षुभुः सीरभृच्छादिशाह अपरेऽपि च ॥९॥ १ अतिदीप्यमानम् । २ सूर्यबिंबम् । ३ सर्पराजशरीरवद्भीषणान् । ४ जन्यं युद्धं तदेव नाट्यं तस्य नांद्या तूयं वाजिंत्रसमानम् । कुमारस्य कृष्णायुधैः क्रीडनम् । ॥२९६ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy