________________
त्रिषष्टिशलाकापुरुषचरिते IR९५॥
पत्युर्विद्यां तदानीं च पाठसिद्धामुषा ददौ । बृंहितौजास्तया सोऽपि बाणेन युयुधे चिरम् ।। ८६ ।। नागपाशैः कलभवद्धद्धः प्रद्युम्ननन्दनः । बाणेनाथ तदाख्यायि प्रज्ञप्त्या शार्ङ्गपाणये ।। ८७ ॥ तत्राययौ हरिः सीरिशांबप्रद्युम्नसंयुतः । दुद्रुवुस्तेऽहिपाशास्तु गरुडध्वजदर्शनात् ।। ८८ ॥ बाणोऽपि शंकरवरेणात्मस्थाम्ना च गर्वितः । ऊचे कृष्णं मदोन्मत्तः किं त्वं वेत्सि न मद्बीलम् ।। ८९ ।। सदान्यकन्याहरणं त्वमकार्कीस्ततश्च ते । पुत्रादीनां क्रमायातं तत्फलं दर्शयामि वः ।। ९० ॥ ऊचे कृष्णोऽपि केयं ते वाचो युक्तिर्दुराशय । कन्या ह्यवश्यं दातव्या दोषस्तद्वरणेऽस्तु कः ॥९१ ।। श्रुत्वेति खेचरवृतो भूकुटीभीषणाननः । कृष्टबाणासनो बाणो बाणांश्चिक्षेप शाङ्गिणे ।। ९२ ॥ तानन्तरापि चिच्छेद च्छेदच्छेको जनार्दनः । शराशरि तयोरेवं वीरयोर्ववृते चिरम् ।। ९३ ॥ निरस्त्रीकृत्य तं कृष्णः कृष्णाहिमिव पक्षिराट् । निकृत्य खंडशोऽनैषीत् प्रेतराजस्य सद्मनि ।। ९४ ।।
अनिरुद्धमुषासमन्वितं समुपादाय जनार्दनस्ततः । हृष्टः प्रद्युम्नसीरिशांबयुग्नगरी द्वारवतीं पुनर्ययौ ।। ९५ ॥
| अष्टमं पर्व
अष्टमः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
बलरामपौत्रसागरचन्द्रकमलामेलाविवाहः ।
इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि सागरचन्द्रोपाख्यानोषाहरणबाणवधवर्णनो
नामाष्टमः सर्गः ।
॥२९५ ॥
१ आत्मबलेन । २ छेदे छेकश्चतुरः ।