________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व अष्टमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
IR९४॥
अस्य किं क्रियतेऽद्येति नभःसेनमबोधयत् । ददौ च कमलामेला सागरायैव केशवः ।।७३ ॥ अपकर्तुं नभःसेनोऽप्यक्षमस्तत्प्रभृत्यपि । छिद्रं सागरचन्द्रस्य मार्गयामास सर्वदा ।।७४ ।। इतश्च पल्यां वैदयां प्रद्युम्नस्य सुतोऽभवत् । अनिरुद्धोऽभिधानेन यौवनं प्रत्यपादि च ।।७५ ।। तदा शुभनिवासाख्ये पुरेऽभूत् खेचरेश्वरः । बाणो नामोल्बणबलस्तस्य चोषेति कन्यका ।। ७६ ।। सा च रुपवती स्वानुरुपवल्लभलिप्सया । विद्यामाराधयद्गौरी निश्चयेन गरीयसा ।। ७७ ॥ सा तुष्टा तामभाषिष्ट पौत्रः कृष्णस्य शाङ्गिणः । भविष्यत्यनिरुद्धस्ते वरः सुरवरोपमः ॥७८ ।। आराधितश्च बाणेन गौरिविद्याप्रियः सुरः । शंकराख्यो ददावस्याजय्यत्वं समरांगणे ॥७९ ।। गौरी तमूचे सर्वत्राजय्यत्वं यद्ददौ वरम् । तन्न युक्तं मया दत्तो ह्यस्त्युषाया वरो ननु ।। ८० ।। शंकरोऽप्यवदद्धाणं त्वमजय्यो भविष्यसि । स्त्रीकार्यादन्यत इति बाणस्तेनापि पिप्रिये ।। ८१ ॥ उषा रुपवतीत्वेन खेचरैर्भूचरैश्च सा । कैः कैर्ययाचे नो बाणान्न ददौ स त्वरोचकी ।। ८२ ।। विद्याधरी चित्रलेखां प्रेष्योषाप्यनुरागिणी । आनाययदनिरुद्धं मनसीव निजे गृहे ।। ८३ ॥ तां गान्धर्वविवाहेनोदुह्यादाय च सोऽचलत् । उषां हृत्वानिरुद्धोऽहं गच्छामीति जगाद च ।। ८४ ।। ततः क्रुद्धः खेचरेन्द्रो बाणो बाणासनी बलैः । व्याधः श्वभिरिव क्रीडमनिरुद्धं निरुद्धवान् ॥८५ ॥
बलरामपौत्रसागरचन्द्रकमलामेलाविवाहः ।
॥२९४ ।।
१ वराहम् ।