________________
त्रिषष्टिशलाकापुरुषचरिते I२९३॥
अष्टमं पर्व अष्टमः सगः श्रीअरिष्टनेमिजिनचरितम् ।
सागरं प्रेक्ष्य पतितं तस्या विरहसागरे । मातापरे कुमाराश्च बभूवुर्विधुरा भृशम् ।।६० ॥ तदा तत्राययौ शांबस्तथावस्थस्य पृष्ठतः । स्थित्वा सागरचन्द्रस्य पाणिभ्यां पिदधे शौ ।। ६१ ॥ सागरः स्माह कमलामेला किमसि नन्विह । एषोऽहं कमलामेल इति शांबोऽप्यभाषत ।। ६२ ।। बभाषे नैषधिस्तर्हि त्वमेव कमलां मम । मेलयिष्यसि पर्याप्तमन्योपायविचिन्तया ।। ६३ ।। अप्रतीच्छंस्तद्वचनं शांबः सर्वैः कुमारकैः । पाययित्वा भूरिमा छलयित्वा च मानितः ।। ६४ ।। शांबो गतमदावस्थोऽचिन्तयत् किं मया ननु । दुष्करं प्रत्यपादीदं निर्वाह्य तत्तथापि हि ।। ६५ ।। ततश्च स्मृत्वा प्रज्ञप्तिं कुमारैरपरैः समम् । नभःसेनोद्वाहदिने शांब उद्यानमभ्यगात् ।। ६६ ।। गृहाच्च कमलामेलां तत्रानाय्य सुरंगया । रक्तां सागरचन्द्रेण विधिवत्पर्यणाययन् ।। ६७ ॥ गृहे च तामपश्यन्तो मार्गयन्त इतस्ततः । पितृश्वशुरवर्गीयास्तदुद्यानं समाययुः ।। ६८ ॥ कृतखेचररुपाणां यदूनां मध्यवर्तिनीम् । आलोक्य कमलामेलां विष्णवे ते व्यजिज्ञपम् ॥६९ ।। क्रुद्धः कृष्णोऽपि कमलामेलाहर्तृनुपेत्य तान् । अयोधयद्धन्तुकामो दुर्नयासहनो हि सः ॥७० ।। कृत्वा स्वरुपं शांबोऽपि कमलामेलया युतम् । गृहीत्वा सागरचन्द्रं न्यपतत् कृष्णपादयोः ॥७१ ॥ ऊचे विलक्षः कृष्णोऽपि किमिदं रे त्वया कृतम् । आश्रितोऽयं नभःसेनो यदेवं हन्त वञ्चितः ॥ ७२ ।। १ कमलां मेलयतीति तथा । २ अनंगीकुर्वन् ।
बलरामपौत्रसागरचन्द्रकमलामेलाविवाहः ।
।।२९३ ॥