________________
त्रिषष्टिशलाकापुरुषचरित IR९२॥
अष्टमं पर्व अष्टमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एवं गंभीरया वाचा प्रकृत्या पितरावृजू । नेमिर्निवारयामास विवाहोपक्रमाग्रहात् ।। ४७ ।। इतोऽपि च यशोमत्या जीवश्च्युत्वापराजितात् । उग्रसेनस्य भार्याया धारिण्या उदरेऽभवत् ।। ४८ ॥ धारिण्याः समये जज्ञे नाम्ना राजीमती सुता । अद्वैतरुपलावण्या क्रमेण ववृधे च सा ।। ४९ ॥ इतश्च द्वारकावासी धनसेनो ददौ सुताम् । नभःसेनाय कमलामेलाख्यामौग्रसेनये ॥ ५० ॥ नभःसेनस्य सदने चाययौ नारदो भ्रमन् । विवाहव्यग्रचित्तेन स तेन न हि पूजितः ।। ५१ ॥ तस्यानर्थेच्छया सोऽगाद्रामसूनिषधात्मजम् । नामतः सागरचन्द्र शाबादीनामतिप्रियम् ।। ५२ ।। तमभ्युत्थाय सोऽपृच्छद्देवर्षे भ्रमता त्वया । किमैक्षि किंचिदाश्चर्यं तदालोकप्रियो ह्यसि ।। ५३ ।। सोऽप्यूचे प्रेक्षितात्रैवाश्चर्यभूता जगत्यपि । नामतः कमलामेला धनसेनस्य कन्यका ।। ५४ ।। नभःसेनाय सा दत्ताधुनैवेत्यभिधाय सः । उत्पत्यागमदन्यत्र तद्रक्तः सागरस्त्वभूत् ।। ५५ ॥ तामेव सागरो दध्यौ तन्नामैव जगाद च । तामेव सर्वतोऽपश्यत्पीतोन्मत्तः सुवर्णवत् ॥ ५६ ॥ जगाम कमलामेलासदने नारदोऽप्यथ । तया च पृष्ट आश्चर्यमित्यभाषिष्ट कूटधीः ।। ५७ ।। आश्चर्ये द्वे मया दृष्टे तत्रैकं रुपसंपदा । कुमारः सागरचन्द्रो नभःसेनः कुरुपतः ।। ५८ ।। सद्यो मुक्त्वा नभःसेनमरज्यत्सागरेऽथ सा । तद्रांगं नारदो गत्वा सागराय शशंस च ॥ ५९॥ १ ऋजू सरलौ । २ उग्रसेनपुत्राय ।
बलरामपौत्रसागरचन्द्रकमलामेला
विवाहः ।
॥२९२ ।।