________________
त्रिषष्टिशलाकापुरुषचरि ॥२९१ ॥
पांडवान् कुरुदेशाय स्वस्वस्थानाय चापरान् । भूचरान् खेचरांश्चाथ विससर्ज जनार्दनः ।। ३४ ।। दशा दश दोष्मन्तः समुद्रविजयादयः । पञ्चसंख्या महावीरा बलदेवादयस्तथा ।। ३५ ।। राजा उग्रसेनाद्याः सहस्राणि च षोडश । प्रद्युम्नादिकुमाराणां सार्धं कोटित्रयं तथा ।। ३६ ।। शांबादीनां दुर्दान्तानां सहस्राः षष्टिरेव च । वीरसेनादयो वीराः सहस्राण्येकविंशतिः ॥ ३७ ॥ तथैव च महासेनप्रभृतीनां महौजसाम् । महतां तलवर्गाणां षट्पञ्चाशत्सहस्यपि ॥ ३८ ॥ अन्येऽपीभ्यश्रेष्ठिसार्थपतिमुख्याः सहस्रशः । कृष्णं सिषेविरे मूर्ध्नि रचिताञ्जलिसंपुटाः ।। ३९ ।। भूपा: षोडश सहस्राः वासुदेवाय भक्तितः । रत्नानि ढौकयामासुर्द्वे द्वे च वरकन्यके ।। ४० ।। ताभ्यः षोडश सहस्राः कन्याः कृष्ण उपायत । अष्टौ सहस्राणि बलोऽन्ये कुमाराश्च तावतीः ।। ४१ ॥ कृष्णो रामः कुमाराश्च क्रीडोद्याननगादिषु । स्वच्छन्दं रेमिरे रम्यरमणीभिः समावृताः ।। ४२ ।। तथा तान् क्रीडतः प्रेक्ष्य समुद्रविजयो नृपः । शिवादेवी चाभिदधे नेमिं प्रेमाक्तया गिरा ॥ ४३॥ तात त्वां पश्यतां नेत्रोत्सवोऽस्माकं सदैव हि । अनुरुपवधूपाणिग्रहणेनाधिकोऽस्तु सः ॥ ४४ ॥ जन्मतोऽपि भवोद्विग्नो ज्ञानत्रयधरः प्रभुः । ऊचे नेमिर्नानुरूपाः क्वापि पश्यामि योषितः ।। ४५ ।। भवन्त्येता हि पाताय दुःखेऽमूभिः कृतं हि नः । संपत्स्यन्तेऽनुरुपास्तु यदोद्वक्ष्यामि तास्तदा ।। ४६ ।।
अष्टमं पर्व अष्टमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णस्य त्रिखण्डे
श्वरत्वम् ।
।। २९१ ।।