________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टम पर्व अष्टमः सर्गः श्रीअरिष्टनेमिजिन
IR९०॥
चरितम् ।
सहैव वसुदेवेन सर्वे विद्याधरेश्वराः । अद्यायांति पुरश्चैतदाख्यातुं प्रेषिता वयम् ।। २२ ।। एवं तासु ब्रुवाणासु वसुदेवः सखेचरः । प्रद्युम्नशांबसहितस्तत्रागान्नयनोत्सवः ।। २३ ।। आनचुः खेचराः कृष्णं वसुधाराविडबिभिः । स्वर्णरत्नैर्विविधैश्च स्यंदनाश्वगजादिभिः ।। २४ ।। जयसेनप्रभृतीनां प्रेतकार्य व्यधाद्धरिः । जरासन्धप्रभृतीनां सहदेवनृपः पुनः ।। २५ ।। पत्युः पितुश्च संहारं सकुलस्यापि वीक्ष्य सा । स्वजीवितं जीवयशा जहौ ज्वलनसाधनात् ।। २६ ।। चुस्कुन्दिरे यदानन्दं यदवस्तज्जनार्दनः । तत्रानन्दपुरं चक्रे सिनपल्लीपदे पुरम् ।। २७ ।। ततः स्थानाच्च गोविन्दः खेचरैर्भूचरैर्वृतः । षड्भिर्मासैर्भरतार्धं संसाध्य मगधेष्वगात् ।। २८ ॥ तत्रैकयोजनोत्सेधा विस्तारेऽप्येकयोजनाम् । भरतार्धवासिनीभिर्देवताभिरधिष्ठिताम् ।। २९ ।। शिलां कोटिशिला नाम दक्षिणेतरबाहुना । चतुरंगुलमुद्दधे पृथ्वीतः कंससूदनः ॥३०॥
॥युग्मम् ॥ तां भुजाग्रे दधौ विष्णुराधो मूर्ध्नि द्वितीयकः । कंठे तृतीयस्तुर्यस्तूरःस्थले पञ्चमो हृदि ॥३१॥ षष्टः कट्यां षडधिकस्तूर्योराजानु चाष्टमः । चतुरंगुलमन्त्योऽवसर्पिण्यां ते पतबलाः ।। ३२ ॥ ततोऽगाद्वारकां कृष्णोऽर्धचक्रित्वेऽभ्यषेचि च । भक्त्या षोडशभी राज्ञां सहसैस्त्रिदशैस्तथा ॥ ३३ ॥ १ सप्तमः । २ जानुपर्यंतम् । ३ क्षीणबलाः ।
कृष्णस्य त्रिखण्डेश्वरत्वम् ।
॥२९० ॥