________________
त्रिषष्टिशलाकापुरुषचरिते
| अष्टमं पर्व
अष्टमः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
IR८९॥
अनाददानस्य राज्यमुग्रसेनस्य नन्दनम् । धरसंज्ञं मथुरायां स्थापयामास केशवः ॥१०॥
॥युग्मम् ।। अथ प्रत्यक्पयोराशौ ममज्जार्यममंडलम् । विसृष्टो नेमिनाथेन मातलिश्च दिवं ययौ ॥ ११ ॥ कृष्णः कृष्णाज्ञयान्ये च स्वं स्वं शिबिरमभ्ययुः । समुद्रविजयश्चास्थाद्वसुदेवागमोत्सुकः ।। १२ ॥ वासुदेवं द्वितीयेऽह्नि समुद्रविजयान्वितम् । खेचर्यः स्थविरास्तिस एयुरित्यूचिरे च ताः ।। १३ ।। प्रद्युम्नशांबसहितो वसुदेवः सखेचरः । नचिरादयमायाति श्रूयतां तस्य चेष्टितम् ।। १४ ॥ तदितः स्थानतः सार्धं पौत्राभ्यां खेचरैश्च तैः । वैताढ्यं वसुदेवोऽगाधुयुधे चारिखेचरैः ॥ १५ ॥ नीलकंठाङ्गारकाद्याः खेचराः पूर्वविद्विषः । सर्वे संभूय संभूय वसुदेवमयोधयन् ॥ १६ ॥ तधुद्धान्त_स्तनेऽहन्यूचुश्चासन्नदेवताः । व्यापादितो जरासन्धः कृष्णो विष्णुरभूदिति ।। १७ ।। तच्छ्रुत्वा खेचराः सर्वे रणं त्यक्त्वा व्यजिज्ञपन् । राज्ञे मन्दरवेगाय सोऽपि तानेवमादिशत् ।। १८ ॥ सर्वेऽप्यायात भो यूयं महाप्राभृतपाणयः । द्वारेण वसुदेवस्य यास्यामः शरणं हरिम् ॥ १९ ॥ इत्युक्त्वा वसुदेवान्ते गत्वा स भगिनी निजाम् । प्रद्युम्नाय ददौ पुत्री राजापि त्रिपथर्षभः ॥२० ।। राजा देवर्षभो वायुपथश्च तनये निजे । श्रीमच्छांबकुमाराय ददतुः परया मुदा ॥ २१ ॥ १ अर्यम्णः सूर्यस्य मंडलम् । २ शीघ्रं । ३ शत्रु ।
कृष्णस्य त्रिखण्डेश्वरत्वम् ।
॥२८९ ॥