________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमः सर्गः ।।
| अष्टम पर्व | अष्टमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
IR८८॥
कृष्णस्य त्रिखण्डेश्वरत्वम्।
अथ रोधान्नेमिनाथोऽमुञ्चत् कृष्णारिपार्थिवान् । तं नमस्कृत्य तेऽप्येवं रचिताञ्जलयोऽवदन् ।।१।। तदैव हि जरासंधो वयं च वञ्चिताः प्रभो । यदैव त्वं यदुकुलेऽवातारीस्त्रिजगत्प्रभो ॥२॥ एकोऽपि विष्णुर्हन्तैव प्रतिविष्णोर्न संशयः । किं पुनर्यस्य नाथ त्वं सहायो बान्धवोऽपि च ।। ३ ।। एतन्न ज्ञातमस्माभिर्जरासन्धेन चाग्रतः । तदकृष्महि कर्मेदृगीदृशी भवितव्यता ।। ४ ॥ अद्य त्वां शरणं प्राप्ताः सर्वेषां शिवमस्तु नः । खलूक्त्वा यदि वाधित्वत्प्रणतानां स्वतः शिवम् ।। ५ ।। इत्युक्त्वा तैः स्थितैर्भूपैः सह नेमिर्ययौ हरिम् । अवतीर्य रथाद्गाढं हरिरप्यालिलिंग तम् ।। ६ ।। हरिनेमिगिरा राज्ञस्तान् स्वीचक्रे तथा च तम् । जारासंधि सहदेवं समुद्रविजयाज्ञया ॥७॥ दत्वा मगधतुर्याशं सहदेवं पितुः पदे । हरिरारोपयामास कीर्तिस्तंभमिवात्मनः ।। ८ ।। महानेमि शौर्यपुरे समुद्रविजयात्मजम् । कोशलायां रुक्मनाभं हिरण्यनाभनन्दनम् ।।९ ॥ १ अत्र खलुशब्दोऽलमर्थे । २ कल्याणम् ।
॥२८८ ॥