________________
त्रिषष्टिशलाकापुरुषचरिते IR८७॥
तच्च स्खलयितुं कृष्णो रामः पञ्चापि पांडवाः । महारथाश्चापरेऽपि स्वान्यस्त्राणि प्रचिक्षिपुः ।। ४४९ ।। तैरस्खलितमुत्पूरसिंधुस्रोत इव द्रुमैः । एत्य तुंबेन तच्चक्रं कृष्णं वक्षस्यताडयत् ।। ४५० ।। भेदितं भेदनीत्येव तच्चक्रं पार्श्वतः स्थितम् । आददे पाणिना कृष्ण स्वं प्रतापमिवोद्यतम् ।। ४५१ ।। नवमो वासुदेवोऽयमुत्पन्न इति घोषिणः । गंधांबुकुसुमवृष्टिं कृष्णे व्योम्नोऽमुचत्सुराः ।। ४५२ ।। कृष्णोऽपि जातकारुण्यो बभाषे मगधाधिपम् । एषापि मम किं माया विद्ध्यवापि गृहे व्रज ।। ४५३ ।। ममाज्ञां प्रतिपद्यस्व पुनरेधस्व संपदा । मुंच मानं दुर्विपाकं जीवाद्यापि जरन्नपि ।। ४५४ ।। ममैतदुल्मुकप्रायं मयैव चिरलालितम् । चक्रं मुंचसि तन्मुंचेत्युवाच मगधेश्वरः ॥ ४५५ ।। जरासंधाय तच्चक्रं मुमोचाथ जनार्दनः । परेषामेव शस्त्राणि स्वकानि स्युर्महात्मनाम् ।। ४५६ ।।
तच्चक्रकृत्तमपतन्मगधेश्वरस्य पृथ्व्यां शिरः स तु जगाम चतुर्थपृथ्व्याम् । कृष्णस्य चोपरि सुराः सुरवृक्षपुष्पवृष्टि व्यधुर्जय जयेति वदंत उच्चैः ।। ४५७ ।।
अष्टम पर्व | सप्तमः | सर्गः
श्रीअरिष्ट| नेमिजिनचरितम् ।
| कृष्णजरासंघयुद्धम् ।
इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि शांबप्रद्युम्नविवाहजरासंधवधकीर्तनो
नाम सप्तमः सर्गः ।
॥ २८७॥
१ भेदनीतिः सामाधुपायेषु तृतीयोपायः । २ तेन चक्रेण कृत्तं छिन्नम् । ३ चतुर्थनरके ।