________________
त्रिषष्टिशलाकापुरुषचरिते IR८६॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इतश्च कृष्णमवदज्जरासंध इयच्चिरम् । जीवितो माययैवासि भो गोपाल शृगालवत् ।। ४३६ ।। माययैव हतः कंसो हतः कालोऽपि मायया । त्वया ह्यशिक्षितास्त्रेण समरः क्रियते न हि ।। ४३७ ।। तव प्राणैः सहैवाद्य माया पर्यंतयाम्यरे । एषोऽद्य जीवयशसः प्रतिज्ञां पूरयामि च ॥ ४३८ ।। स्मित्वा कृष्णोऽब्रवीद्राजन्नित्यं निर्मिथ्यमात्थ भोः । ईदृक्षोऽस्मि परं स्वस्य दर्श्यतां शिक्षितास्त्रता ॥ ४३९ ।। नाहं स्वश्लाघनस्त्वद्वदेकमाख्यामि किं त्विदम् । पूरिष्यते त्वदुहितुः प्रतिज्ञाग्निप्रवेशनात् ।। ४४० ॥ इति विष्णुगिरा क्रुद्धो जरासंधोऽमुचच्छरान् । विकर्तनस्तमांसीव कृष्णोऽपि विचकर्त तान् ।। ४४१ ।। उभावपि ससंरंभौ शरभाविव धन्विनौ । अयुध्येतां धनुर्वानैर्ध्वनयंतौ दिशोऽखिलाः ।। ४४२ ।। तयोः समरसंमर्दाच्चुक्षुभुर्जलराशयः । वित्रेसुः खेचरा व्योम्नि गिरयश्च चकपिरे ।। ४४३ ।। गतागतं तद्रथयोईढयोः शैलयोरिव । असहिष्णुर्मही सर्वसहत्वममुचत् क्षणात् ।। ४४४ ।। दैवतैर्दैवतान्यस्त्राण्यायसैरायसानि तु । प्रत्यहन्मगधेशस्य लीलयैव जनार्दनः ॥ ४४५ ॥ जाते सर्वास्त्रवैफल्ये वैलक्ष्यामर्षपूरितः । चक्रं सस्मार दुर्वारमन्यास्त्रैर्मगधेश्वरः ।। ४४६ ।। चक्रं तदागतं सद्यो भ्रमयित्वा करेण खे । कृष्णाय जयतृष्णावान् कोपांधो मागधोऽमुचत् ।। ४४७ ॥ चक्रे तत्रापतत्युच्चैस्त्रेसुः खे खेचरा अपि । चुक्षुभुः कृष्णसैन्यानि लब्धदैन्यानि सर्वतः ।। ४४८ ॥ १ सत्यम् । २ सूर्यः ।
कृष्णजरासंघयुद्धम् ।
|| २८६ ॥