________________
त्रिषष्टिशलाकापुरुषचरिते IR८५॥
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अयादवं करोत्यद्य त्वया ह्ययमुपेक्षितः । तद्दर्शय जगन्नाथ मनाग लीलायितं निजम् ।। ४२३ ।। यद्यप्याजन्मविमुखः सावद्यात् कर्मणः प्रभुः । तथापि द्विषदाक्रांतं नोपेक्ष्यं कुलमात्मनः ।। ४२४ ॥ तेनेत्युक्तो विना कोपं नेमिरादाय पाणिना । दध्मौ पौरंदरं शंखमतिपर्जन्यनिःस्वनम् ॥ ४२५ ॥ तद्ध्वानै रोदसीकुक्षिभरिभिश्चुक्षुभुः परे । यदुसैन्यं पुनः स्वस्थीबभूव समरक्षमम् ॥ ४२६ ॥ अलातचक्रवन्नेमेराज्ञया मातली रथम् । भ्रमयामास संग्रामे सागरावर्तसंनिभम् ।। ४२७ ॥ आकृष्टाखंडलधनुर्नवांभोद इव प्रभुः । ववर्ष शरधाराभिः परितस्त्रासयन्नरीन् ।। ४२८ ।। ध्वजांश्चिच्छेद केषांचित् केषांचित् कार्मुकाणि च । रथानभांक्षीत् केषांचित्केषांचिन्मुकुटान् प्रभुः ।। ४२९ ।।* दूरे प्रहारवार्ता तु न वीक्षितुमपि क्षमाः । बभूवुः परसुभटाः कल्पांतार्कप्रभं प्रभुम् ॥ ४३० ॥ अभांक्षीत् क्ष्माभुजां लक्षं स्वाम्येकोऽपि किरीटिनाम् । उभ्रांतस्य महाभोधेः सानुमंतोऽपि के पुरः ।।४३१ । प्रतिविष्णुर्विष्णुनैव वध्य इत्यनुपालयन् । स्वामी त्रैलोक्यनाथोऽपि जरासंधं जघान न ।। ४३२ ।। परसैन्यानि रुद्ध्वास्थाच्छ्रीनेमिर्धमयन् रथम् । लब्धोत्साहा युयुधिरे भूयोऽपि यदुसैन्यकाः ॥४३३ ।। अत्रांतरे पांडुपुत्रैः सिंहैरिव कुरंगकाः । अवशिष्ट धार्तराष्ट्रा निजवैरान्निजनिरे ॥ ४३४ ॥ स्वस्थीभूतो बलदेवोऽप्युदस्तायोग्रलांगलः । अनेकशो योधयित्वा जघान परसैनिकान् ॥४३५ ।। १ पर्वताः ।
कृष्णजरासंघ
युद्धम् ।
|| २८५॥