________________
त्रिषष्टिशलाकापुरुषचरिते IR८४॥
अष्टम पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
वातोद्भूतं तूलमिव यदुसैन्यमशेषतः । जरासंधशरैर्दूनं विदुद्राव दिशो दिशि ।। ४१० ॥ जरासंधः कासरवद्यदुसैन्यमहासरः । जगाहे परितस्तत्र भेकत्वं यदवो ययुः ॥ ४११ ॥ जरासंधसुता अष्टाविंशतिग्विषा इव । विक्षिपंतः शस्त्रविषं रामं समुपदुद्रुवुः ॥ ४१२ ।। एकोनसप्ततिश्चान्ये जरासंधस्य सूनवः । जनार्दनं जिघांसंतो रुरुधुर्दानवा इव ॥ ४१३ ॥ तैः समं ववृते घोरः समरो रामकृष्णयोः । मिथोऽस्त्रच्छेदसंभूतस्फुलिंगकणवर्षणः ॥ ४१४ ॥ रामोऽष्टाविंशतिमपि ताञ्जरासंधनंदनान् । सीरेणाकृष्य मुशलेनापिषत्तंडुलानिव ॥४१५ ॥ अद्याप्युपेक्षितो हंति गोपोऽयमिति विब्रुवन् । जरासंधो न्यहनामं गदया वज्रकल्पया ॥४१६ ॥ ववाम रुधिरं रामो गदाघातेन तेन तु । यदुसैन्ये समग्रे च जज्ञे हाहारवो महान् ।। ४१७ ॥ प्रजिहीर्षु पुना रामे जरासंधमयोधयत् । अंतरापत्य कौंतेयः कनिष्ठः श्वेतवाहनः ।। ४१८ ॥ प्रेक्ष्य रामस्य वैधुर्य क्रुद्धः कृष्णो धुताधरः । पुरस्थानवधीज्जारासंधानेकोनसप्ततिम् ॥ ४१९ ॥ मरिष्यत्येव रामोऽयं किं हतेन किरीटिना । कृष्णं हन्मीति तमभिदधावे मगधाधिपः ॥ ४२० ।। कृष्णोऽपि हत एवेति सर्वत्राप्यभवद्ध्वनिः । अत्रांतरेऽरिष्टनेमिमित्यवोचत मातलिः ॥ ४२१ ॥ कलभः शरभस्येव जरासंधः कियानयम् । भुवनत्रयनाथस्य श्रीनेमे भवतः पुरः ।। ४२२ ।। १ महिषवत् । २ अर्जुनः । ३ जरासंघपुत्रान् ।
कृष्ण जरासंघयुद्धम् ।
।। २८४ ॥