SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका | अष्टम पर्व सप्तमः पुरुषचरिते IR८३॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । SAHARASHRSHASHASHAN नरदेवो बलस्यैते सुता दश रणास्यगाः । अजा इव क्रतुमुखे जरासंधेन जनिरे ।। ३९८ ॥ कृष्णसेना पलायिष्ट कुमारवधदर्शनात् । निघ्नन् गोत्रीमिव व्याघ्रोऽन्वयासीत्तां च मागधः ।। ३९९ ।।। शिशुपालोऽथ सेनानीहसन् कृष्णमवोचत । न ह्येतद्गोकुलं कृष्ण क्षत्रियाणां रणो ह्ययम् ।। ४०० ॥ कृष्णोऽप्यूचे गच्छ राजन् गम्यं पश्चादपि त्वया । समरे रौक्मिणेऽप्यस्था माद्रीमातः कियच्चिरम् ॥४०१ ॥ मर्माविधा शरेणेव विद्धो हरिगिरा तया । चेदिरा धनुरास्फाल्य नाराचानमुचच्छितान् ॥ ४०२ ॥ हरिस्तस्याच्छिदद्बाणैः कार्मुकं कवचं रथम् । असिमाकृष्य सोऽधावदुधूम इव पावकः ।। ४०३ ।। खड्गं च मुकुटं चाथ मूर्धानं च हरिः क्रमात् । चिच्छेद चेदिराजस्य विब्रुवाणस्य दुर्मतेः ।। ४०४ ॥ शिशुपालवधक्रुद्धः कृतांत इव भीषणः । जरासंधः समं पुत्रै राजभिश्चाभ्यधावत ।। ४०५ ।। ऊचे चैवं यदूनुच्चैर्मा म्रियध्वं मुधैव रे । तावर्पयत गोपालौ क्षतं नाद्यापि किंचन ॥४०६ ।। यदवस्तगिरा क्रुद्धा दंडाघृष्टा इवोरगाः । पूत्कुर्वतोऽभ्यधावन्त विविधायुधवर्षिणः ।। ४०७ ॥ एकोऽप्यनेकीभूयेव जरासंधः समंततः । यदुसैन्यान् शरैर्घोरैर्विव्याध व्याधवन्मृगान् ।। ४०८ ।। न पत्तयो न रथिनो न वा सादिनिषादि च । अशकन् पुरतः स्थातुं जरासंधस्य योधिनः ॥ ४०९ ॥ १ रणमुखस्थिताः । २ गोसमूहम् । ३ मगधानां राजा मागधो जरासंधः । ४ माद्री माता यस्य सः तत्संबोधनम् । ५ सादिनश्च निषादिनश्च तेषां समाहारः । कृष्णजरासंघ युद्धम् । ।। २८३ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy