________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २८२ ॥
पारापतप्रभाश्वोऽयं सारणः पुष्करध्वजः । पंचपुत्रैर्हयैरेष कुंभकेतुर्विदूरथः ॥ ३८५ ॥ सैन्यांतर्धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । अंतर्व्योमबलाकाभिः प्रावृषेण्य इवांबुदः ।। ३८६ ।। अस्य दक्षिणपक्षस्थो रिष्टवर्णैस्तुरंगमैः । तालध्वजो रौहिणेयः कैलास इव जंगमः ।। ३८७ ॥ भूयांसो यदवोऽन्येऽपि नानाहयरथध्वजाः । महारथाः सांप्रतं ते शक्याः कथयितुं न हि ॥ ३८८ ॥ तच्च श्रुत्वा जरासंधः क्रोधादास्फालयद्धनुः । रामकृष्णौ प्रति रथं प्रेरयामास वेगतः ।। ३८९ ।। युवराजो जरासंधतनयो यवनः क्रुधा । वसुदेवसुतान् हंतुमक्रूरादीनधावत ।। ३९० ।। शरभस्येव पंचास्यैः सह तैरभवद्रणः । यवनस्य महाबाहोः संहार इव भीषणः ।। ३९१ ।। रामानुजः सारणोऽथाद्वैतसारो रुरोध तम् । विचित्रपत्रिभिवर्षन् वर्षाभव इवांबुदः ।। ३९२ ।। मलयेनेव तुंगेन मलयाख्येन दंतिना । यवनः सारणरथं सह रथ्यैरभंजयत् ॥ ३९३ ॥ गजे परिणते तस्मिन् यवनस्य शिरोऽसिना । चिच्छेद सारणो वातांदोलितद्रोः फलं यथा ॥ ३९४ ॥ तस्येभस्योत्तिष्ठतश्च हस्तदंतं चकर्त सः । प्रावृषीव शिखिकुलं कृष्णसैन्यं ननर्त च ।। ३९५ ।। दृष्ट्वा सुतवधं क्रुद्धो जरासंधो धनुर्धरः । यदून् हंतुं प्रववृते मृगारातिर्मृगानिव ।। ३९६ ।। आनन्दशत्रुदमनौ नंदनः श्रीध्वजो ध्रुवः । देवानन्दश्चारुदत्तः पीठश्च हरिषेणकः ।। ३९७ ।।
१ आकाशमध्ये ।
अष्टमं पर्व
सप्तमः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णजरासंघयुद्धम् ।
॥ २८२ ॥