________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
IR८१॥
जरासंधमथोपेयुः शरणं तन्महीभुजः । पश्चिमाब्धावमज्जच्च तदानीमुष्णदीधितिः ।। ३७२ ।। ययौ कृष्णमनाधृष्टिः पूजितो यदुपांडवैः । कृष्णाज्ञया च सर्वेऽपि स्वं स्वं शिबिरमभ्ययुः ।। ३७३ ।। अथ राजा जरासंधं मंत्रयित्वा तदैव हि । अभ्यषिंचच्चमूपत्वे शिशुपालं महाबलम् ॥ ३७४ ।। यदवो गरुडव्यूहं गरुडध्वजशासनात् । विधाय प्रातरातस्थुस्तथैव समरावनिम् ।।३७५ ॥ तथैव शिशुपालोऽपि चक्रव्यूह विनिर्ममे । ततो राजा जरासंधः शिवाय समरावनिम् ।। ३७६ ।। जरासंधेन पृष्टोऽथ हंसकः परसैनिकान् । अंगुल्या दर्शयन्नामग्राहमित्याख्यदुच्चकैः ।। ३७७ ।। कृष्णाश्वेन रथेनायमनाधृष्टिगजध्वजः । नीलाश्वेन रथेनैष पांडुपुत्रो युधिष्ठिरः ॥ ३७८ ॥ धनंजयः पुनरयं रथेन श्वेतवाजिना । नीलोत्पलदलाभाश्वरथस्त्वेष वृषोदरः ।। ३७९ ॥ समुद्रविजयः स्वर्णवर्णाश्वोऽयं हरिध्वजः । अयं तु शुक्रवर्णाश्वोऽरिष्टनेमिवृषध्वजः ।। ३८० ॥ अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरंगमैः ॥३८१ ।। महानेमिकुमारोऽयं कुमुदाभैस्तुरंगमैः । उग्रसेनः पुनरयं शुक्रतुंडप्रभैर्हयैः ।। ३८२ ।। जरत्कुमारः कनकपृष्ठाश्वोऽयं मृगध्वजः । कांबोजैर्वाजिभिश्चायं सिंहलः श्लक्ष्णरोमसूः ।। ३८३ ।। मेरुः कपिलरक्ताश्वः शिशुमारध्वजस्त्वसौ । पद्माभैर्वाजिभिश्चैष राजा पद्मरथपुरः ॥३८४ ।। १ रणभूमिम् ।
कृष्ण
जरासंघयुद्धम् ।
।। २८१ ॥