SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते २८० ॥ इत्युक्त्वा प्रेरयामास स जवेन मतंगजम् । महानेमिरथं सूतोऽभ्रामयन्मंडलेन च ।। ३५९ ॥ तद्गजं तलपादेषु महानेमिः शरैरहन् । गजः सभगदत्तोऽपि जर्जरांघ्रिः पपात च ।। ३६० ॥ नासि रुक्मी हसित्वेति धनुःकोट्या च तं स्पृशन् । वोरोऽमुंचन्महानेमिः प्रकृत्या करुणापरः ।। ३६१ ।। भूरिश्रवाः सात्यकिश्च युयुधाते इतश्च तौ । जरासंघवासुदेवजयश्रीकांक्षिणावुभौ ।। ३६२ ।। तौ दिव्यैरायसैश्चास्त्रैर्दतैरिव सुरद्विपौ । युध्यमानौ समभूतां जगत्त्रयभयंकरौ ॥ ३६३ ॥ चिरादुभौ च क्षीणास्त्रौ क्षीणतोयाविवांबुदौ । दोर्दंडाभ्यामयुध्येतां मुष्टामुष्टिविधायिनौ ।। ३६४ ॥ तावकंपयतां भूमिं पतनोत्पतनैर्दढैः । भुजास्फोटरवैश्वोभौ दिशोऽस्फोटयतामिव ।। ३६५ ।। बद्ध्वा च भूरिश्रवसं योक्त्रबंधेन सात्यकिः । वालयित्वा गलं पृष्ठे जानुनाक्रम्य चावधीत् ।। ३६६ ॥ इतो हिरण्यनाभस्यानाधृष्टिरखंडयत् । स्फुलिंगजालैरुद्यद्भिरुद्योतितदिगंतरम् ।। ३६७ ।। तमापतंतं विशिखैरनाधृष्टिरखंडयत् । स्फलिंगजालैरुधद्भिरुधोतितदिगंतरम् ॥ ३६८ ॥ अनाधृष्टरंतचिंकी रथादुत्तीर्य वेगवान् । हिरण्यनाभश्चर्मासिपाणिः भद्र्यामधावत ।। ३६९ ।। कृष्णाग्रजोऽपि चोत्तीर्य खङ्गखेटकभृद्रुतम् । चरन् विचित्रचारीभिः सुचिरं तमखेदयत् ।। ३७० ।। अनाधृष्टिर्लधुहस्तश्छलं लब्ध्वासिनाच्छिदत् । वपुर्हिरण्यनाभस्य ब्रह्मसूत्रेण दारुवत् ।। ३७१ ।। १ नाशंचिकीर्षुः । अष्टमं पर्व सप्तमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । कृष्णजरासंघयुद्धम् । 11 360 11
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy